श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 3
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.3.1
निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् अपि धर्मराजः । एवं हताज्ञो विहतान् मुरारेर् नैदेशिकैर्यस्य वशे जनो ऽयम् ॥ 1 ॥
श्लोक 6.3.2
यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन् मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥ 2 ॥
श्लोक 6.3.3
भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ 3 ॥
श्लोक 6.3.4
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ 4 ॥
श्लोक 6.3.5
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ 5 ॥
श्लोक 6.3.6
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ 6 ॥
श्लोक 6.3.7
अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ 7 ॥
श्लोक 6.3.8
तस्य ते विहितो दण्डो न लोके वर्तते ऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ 8 ॥
श्लोक 6.3.9
नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ 9 ॥
श्लोक 6.3.10
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्य् अभिहिते मा भैरित्य् आययुर्द्रुतम् ॥ 10 ॥
श्लोक 6.3.11
इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ 11 ॥
श्लोक 6.3.12
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् । यदंशतो ऽस्य स्थितिजन्मनाशा नस्य् ओतवद्यस्य वशे च लोकः ॥ 12 ॥
श्लोक 6.3.13
यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥ 13 ॥
श्लोक 6.3.14
अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो विरिञ्चिः । आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ 14 ॥
श्लोक 6.3.15
अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये ॥ 15 ॥
श्लोक 6.3.16
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते । आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥ 16 ॥
श्लोक 6.3.17
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः ॥ 17 ॥
श्लोक 6.3.18
भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यान् अथ सर्वतश्च ॥ 18 ॥
श्लोक 6.3.19
धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥ 19 ॥
श्लोक 6.3.20
स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ 20 ॥
श्लोक 6.3.21
द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ 21 ॥
श्लोक 6.3.22
एतावान् एव लोके ऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ 22 ॥
श्लोक 6.3.23
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलो ऽपि येनैव मृत्युपाशादमुच्यत ॥ 23 ॥
श्लोक 6.3.24
एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् &अम्प्; विक्रुश्य पुत्रमघवान् यदजामिलो ऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥ 24 ॥
श्लोक 6.3.25
प्रायेण वेद तदिदं न महाजनो ऽयं देव्या विमोहितमतिर्बत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः ॥ 25 ॥
श्लोक 6.3.26
एवं विमृश्य सुधियो भगवत्य् अनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्य् अथ यद्य् अमीषां स्यात् पातकं तदपि हन्त्य् उरुगायवादः ॥ 26 ॥
श्लोक 6.3.27
ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः । तान् नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे ॥ 27 ॥
श्लोक 6.3.28
तान् आनयध्वमसतो विमुखान् मुकुन्द पादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलैरसङ्गैर् जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ 28 ॥
श्लोक 6.3.29
जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तान् आनयध्वमसतो ऽकृतविष्णुकृत्यान् ॥ 29 ॥
श्लोक 6.3.30
तत् क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत् कृतं नः । स्वानामहो न विदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ 30 ॥
श्लोक 6.3.31
तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्य् ऐकान्तिकनिष्कृतम् ॥ 31 ॥
श्लोक 6.3.32
शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः ॥ 32 ॥
श्लोक 6.3.33
कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट मायागुणेषु रमते वृजिनावहेषु &अम्प्; अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् ईहेत कर्म यत एव रजः पुनः स्यात् ॥ 33 ॥
श्लोक 6.3.34
इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिङ्करास्ते । नैवाच्युताश्रयजनं प्रतिशङ्कमाना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ 34 ॥
श्लोक 6.3.35
इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ॥ 35 ॥