मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 4

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.4.1

देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवे ऽन्तरे ॥ 1 ॥

श्लोक 6.4.2

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ 2 ॥

श्लोक 6.4.3

इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ 3 ॥

श्लोक 6.4.4

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः । अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ 4 ॥

श्लोक 6.4.5

द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ 5 ॥

श्लोक 6.4.6

ताभ्यां निर्दह्यमानांस्तान् उपलभ्य कुरूद्वह । राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ 6 ॥

श्लोक 6.4.7

न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ 7 ॥

श्लोक 6.4.8

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः । वनस्पतीन् ओषधीश्च ससर्जोर्जमिषं विभुः ॥ 8 ॥

श्लोक 6.4.9

अन्नं चराणामचरा ह्य् अपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ 9 ॥

श्लोक 6.4.10

यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ 10 ॥

श्लोक 6.4.11

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ 11 ॥

श्लोक 6.4.12

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् ॥ 12 ॥

श्लोक 6.4.13

अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्य् असौ ॥ 13 ॥

श्लोक 6.4.14

यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते ॥ 14 ॥

श्लोक 6.4.15

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः । वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ 15 ॥

श्लोक 6.4.16

इत्य् आमन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ 16 ॥

श्लोक 6.4.17

तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ 17 ॥

श्लोक 6.4.18

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन् ममावहितः शृणु ॥ 18 ॥

श्लोक 6.4.19

मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ 19 ॥

श्लोक 6.4.20

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादान् उपव्रज्य सो ऽचरद्दुष्करं तपः ॥ 20 ॥

श्लोक 6.4.21

तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ 21 ॥

श्लोक 6.4.22

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥ 22 ॥

श्लोक 6.4.23

नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर् निवृत्तमानाय दधे स्वयम्भुवे ॥ 23 ॥

श्लोक 6.4.24

न यस्य सख्यं पुरुषो ऽवैति सख्युः सखा वसन् संवसतः पुरे ऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस् तस्मै महेशाय नमस्करोमि ॥ 24 ॥

श्लोक 6.4.25

देहो ऽसवो ऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ 25 ॥

श्लोक 6.4.26

यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ 26 ॥

श्लोक 6.4.27

मनीषिणो ऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ 27 ॥

श्लोक 6.4.28

स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ 28 ॥

श्लोक 6.4.29

यद्यन् निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य । मा भूत् स्वरूपं गुणरूपं हि तत् तत् स वै गुणापायविसर्गलक्षणः ॥ 29 ॥

श्लोक 6.4.30

यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ 30 ॥

श्लोक 6.4.31

यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ऽनन्तगुणाय भूम्ने ॥ 31 ॥

श्लोक 6.4.32

अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्य् अनुकूलं बृहत् तत् ॥ 32 ॥

श्लोक 6.4.33

यो ऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवान् अनन्तः । नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु ॥ 33 ॥

श्लोक 6.4.34

यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ॥ 34 ॥

श्लोक 6.4.35

इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ 35 ॥

श्लोक 6.4.36

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः । चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ 36 ॥

श्लोक 6.4.37

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ 37 ॥

श्लोक 6.4.38

महाकिरीटकटकः स्फुरन्मकरकुण्डलः । काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः ॥ 38 ॥

श्लोक 6.4.39

त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ 39 ॥

श्लोक 6.4.40

स्तूयमानो ऽनुगायद्भिः सिद्धगन्धर्वचारणैः । रूपं तन् महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ 40 ॥

श्लोक 6.4.41

ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः । न किञ्चनोदीरयितुमशकत् तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ 41 ॥

श्लोक 6.4.42

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ 42 ॥

श्लोक 6.4.43

प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच् छ्रद्धया मत्परया मयि भावं परं गतः ॥ 43 ॥

श्लोक 6.4.44

प्रीतो ऽहं ते प्रजानाथ यत् ते ऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ 44 ॥

श्लोक 6.4.45

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्य् एता भूतानां भूतिहेतवः ॥ 45 ॥

श्लोक 6.4.46

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ 46 ॥

श्लोक 6.4.47

अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ 47 ॥

श्लोक 6.4.48

मय्य् अनन्तगुणे ऽनन्ते गुणतो गुणविग्रहः । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ 48 ॥

श्लोक 6.4.49

स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ॥ 49 ॥

श्लोक 6.4.50

अथ मे ऽभिहितो देवस्तपो ऽतप्यत दारुणम् । नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ 50 ॥

श्लोक 6.4.51

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ 51 ॥

श्लोक 6.4.52

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ 52 ॥

श्लोक 6.4.53

त्वत्तो ऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ 53 ॥

श्लोक 6.4.54

इत्य् उक्त्वा मिषतस्तस्य भगवान् विश्वभावनः । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ 54 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ