श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 5
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.5.1
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयद्विभुः ॥ 1 ॥
श्लोक 6.5.2
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ 2 ॥
श्लोक 6.5.3
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन् मुनिसिद्धनिषेवितम् ॥ 3 ॥
श्लोक 6.5.4
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयो ऽप्य् उत ॥ 4 ॥
श्लोक 6.5.5
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ 5 ॥
श्लोक 6.5.6
उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः । अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ 6 ॥
श्लोक 6.5.7
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ 7 ॥
श्लोक 6.5.8
नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ 8 ॥
श्लोक 6.5.9
कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ 9 ॥
श्लोक 6.5.10
तन् निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ 10 ॥
श्लोक 6.5.11
भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ 11 ॥
श्लोक 6.5.12
एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ 12 ॥
श्लोक 6.5.13
पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ 13 ॥
श्लोक 6.5.14
नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ 14 ॥
श्लोक 6.5.15
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ 15 ॥
श्लोक 6.5.16
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ 16 ॥
श्लोक 6.5.17
पञ्चविंशतितत्त्वानां पुरुषो ऽद्भुतदर्पणः । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ 17 ॥
श्लोक 6.5.18
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ 18 ॥
श्लोक 6.5.19
कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ 19 ॥
श्लोक 6.5.20
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्य् उपक्रमेत् ॥ 20 ॥
श्लोक 6.5.21
इति व्यवसिता राजन् हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ 21 ॥
श्लोक 6.5.22
स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकान् अनुचरन् मुनिः ॥ 22 ॥
श्लोक 6.5.23
नाशं निशम्य पुत्राणां नारदाच् छीलशालिनाम् । अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् ॥ 23 ॥
श्लोक 6.5.24
स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः । पुत्रान् अजनयद्दक्षः सवलाश्वान् सहस्रिणः ॥ 24 ॥
श्लोक 6.5.25
ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥ 25 ॥
श्लोक 6.5.26
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः ॥ 26 ॥
श्लोक 6.5.27
अब्भक्षाः कतिचिन् मासान् कतिचिद्वायुभोजनाः । आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ 27 ॥
श्लोक 6.5.28
ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ 28 ॥
श्लोक 6.5.29
इति तान् अपि राजेन्द्र प्रजासर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ 29 ॥
श्लोक 6.5.30
दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ 30 ॥
श्लोक 6.5.31
भ्रातॄणां प्रायणं भ्राता यो ऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ 31 ॥
श्लोक 6.5.32
एतावदुक्त्वा प्रययौ नारदो ऽमोघदर्शनः । ते ऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥ 32 ॥
श्लोक 6.5.33
सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ 33 ॥
श्लोक 6.5.34
एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः । पूर्ववन् नारदकृतं पुत्रनाशमुपाशृणोत् ॥ 34 ॥
श्लोक 6.5.35
चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ 35 ॥
श्लोक 6.5.36
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्य् अर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ 36 ॥
श्लोक 6.5.37
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ 37 ॥
श्लोक 6.5.38
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ 38 ॥
श्लोक 6.5.39
ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ 39 ॥
श्लोक 6.5.40
नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा । मन्यसे यद्य् उपशमं स्नेहपाशनिकृन्तनम् ॥ 40 ॥
श्लोक 6.5.41
नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान् न तथा भिन्नधीः परैः ॥ 41 ॥
श्लोक 6.5.42
यन् नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् ॥ 42 ॥
श्लोक 6.5.43
तन्तुकृन्तन यन् नस्त्वमभद्रमचरः पुनः । तस्माल् लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥ 43 ॥
श्लोक 6.5.44
प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः । एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ 44 ॥