श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 6
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.6.1
ततः प्राचेतसो ऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ 1 ॥
श्लोक 6.6.2
दश धर्माय कायादाद्द्विषट् त्रिणव चेन्दवे । भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ 2 ॥
श्लोक 6.6.3
नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥ 3 ॥
श्लोक 6.6.4
भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ् शृणु ॥ 4 ॥
श्लोक 6.6.5
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील् लम्बायास्ततश्च स्तनयित्नवः ॥ 5 ॥
श्लोक 6.6.6
ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः । भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततो ऽभवत् ॥ 6 ॥
श्लोक 6.6.7
विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ 7 ॥
श्लोक 6.6.8
मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः । जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ 8 ॥
श्लोक 6.6.9
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ 9 ॥
श्लोक 6.6.10
सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः । वसवो ऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥ 10 ॥
श्लोक 6.6.11
द्रोणः प्राणो ध्रुवो ऽर्को ऽग्निर्दोषो वास्तुर्विभावसुः । द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ 11 ॥
श्लोक 6.6.12
प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः । ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ 12 ॥
श्लोक 6.6.13
अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ 13 ॥
श्लोक 6.6.14
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः । दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ 14 ॥
श्लोक 6.6.15
वासोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः । ततो मनुश्चाक्षुषो ऽभूद्विश्वे साध्या मनोः सुताः ॥ 15 ॥
श्लोक 6.6.16
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामो ऽथ भूतानि येन जाग्रति कर्मसु ॥ 16 ॥
श्लोक 6.6.17
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः । रैवतो ऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ 17 ॥
श्लोक 6.6.18
अजैकपादहिर्ब्रध्नो बहुरूपो महान् इति । रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः ॥ 18 ॥
श्लोक 6.6.19
प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄन् अथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ 19 ॥
श्लोक 6.6.20
कृशाश्वो ऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ 20 ॥
श्लोक 6.6.21
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च । पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ ॥ 21 ॥
श्लोक 6.6.22
सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागान् अनेकशः ॥ 22 ॥
श्लोक 6.6.23
कृत्तिकादीनि नक्षत्राण् ईन्दोः पत्न्यस्तु भारत । दक्षशापात् सो ऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ 23 ॥
श्लोक 6.6.24
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ 24 ॥
श्लोक 6.6.25
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ 25 ॥
श्लोक 6.6.26
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ 26 ॥
श्लोक 6.6.27
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ 27 ॥
श्लोक 6.6.28
दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ 28 ॥
श्लोक 6.6.29
अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् शृणु ॥ 29 ॥
श्लोक 6.6.30
द्विमूर्धा शम्बरो ऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलो ऽरुणः ॥ 30 ॥
श्लोक 6.6.31
पुलोमा वृषपर्वा च एकचक्रो ऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ 31 ॥
श्लोक 6.6.32
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ 32 ॥
श्लोक 6.6.33
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ 33 ॥
श्लोक 6.6.34
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ 34 ॥
श्लोक 6.6.35
उपयेमे ऽथ भगवान् कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ 35 ॥
श्लोक 6.6.36
तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ 36 ॥
श्लोक 6.6.37
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ 37 ॥
श्लोक 6.6.38
अथातः श्रूयतां वंशो यो ऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ 38 ॥
श्लोक 6.6.39
विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥ 39 ॥
श्लोक 6.6.40
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ 40 ॥
श्लोक 6.6.41
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ 41 ॥
श्लोक 6.6.42
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ 42 ॥
श्लोक 6.6.43
पूषानपत्यः पिष्टादो भग्नदन्तो ऽभवत् पुरा । यो ऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ 43 ॥
श्लोक 6.6.44
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ 44 ॥
श्लोक 6.6.45
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ 45 ॥