श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 7
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.7.1
कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचक्ष्व भगवञ् छिष्याणामक्रमं गुरौ ॥ 1 ॥
श्लोक 6.7.2
इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः । मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥ 2 ॥
श्लोक 6.7.3
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ 3 ॥
श्लोक 6.7.4
विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ 4 ॥
श्लोक 6.7.5
उपगीयमानो ललितमास्थानाध्यासनाश्रितः । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ 5 ॥
श्लोक 6.7.6
युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः । विराजमानः पौलम्या सहार्धासनया भृशम् ॥ 6 ॥
श्लोक 6.7.7
स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ 7 ॥
श्लोक 6.7.8
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ 8 ॥
श्लोक 6.7.9
ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः । आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ 9 ॥
श्लोक 6.7.10
तर्ह्य् एव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः । गर्हयामास सदसि स्वयमात्मानमात्मना ॥ 10 ॥
श्लोक 6.7.11
अहो बत मयासाधु कृतं वै दभ्रबुद्धिना । यन् मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ 11 ॥
श्लोक 6.7.12
को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि । ययाहमासुरं भावं नीतो ऽद्य विबुधेश्वरः ॥ 12 ॥
श्लोक 6.7.13
यः पारमेष्ठ्यं धिषणमधितिष्ठन् न कञ्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ 13 ॥
श्लोक 6.7.14
तेषां कुपथदेष्टॄणां पततां तमसि ह्य् अधः । ये श्रद्दध्युर्वचस्ते वै मज्जन्त्य् अश्मप्लवा इव ॥ 14 ॥
श्लोक 6.7.15
अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ 15 ॥
श्लोक 6.7.16
एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् । बृहस्पतिर्गतो ऽदृष्टां गतिमध्यात्ममायया ॥ 16 ॥
श्लोक 6.7.17
गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् । ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ 17 ॥
श्लोक 6.7.18
तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् । देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ 18 ॥
श्लोक 6.7.19
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः । ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ 19 ॥
श्लोक 6.7.20
तांस्तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूरजः । कृपया परया देव उवाच परिसान्त्वयन् ॥ 20 ॥
श्लोक 6.7.21
अहो बत सुरश्रेष्ठा ह्य् अभद्रं वः कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान् नाभ्यनन्दत ॥ 21 ॥
श्लोक 6.7.22
तस्यायमनयस्यासीत् परेभ्यो वः पराभवः । प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ 22 ॥
श्लोक 6.7.23
मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् । सम्प्रत्य् उपचितान् भूयः काव्यमाराध्य भक्तितः । आददीरन् निलयनं ममापि भृगुदेवताः ॥ 23 ॥
श्लोक 6.7.24
त्रिपिष्टपं किं गणयन्त्य् अभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः । न विप्रगोविन्दगवीश्वराणां भवन्त्य् अभद्राणि नरेश्वराणाम् ॥ 24 ॥
श्लोक 6.7.25
तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम् । सभाजितो ऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥ 25 ॥
श्लोक 6.7.26
त एवमुदिता राजन् ब्रह्मणा विगतज्वराः । ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ 26 ॥
श्लोक 6.7.27
वयं ते ऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते । कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ 27 ॥
श्लोक 6.7.28
पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ 28 ॥
श्लोक 6.7.29
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः ॥ 29 ॥
श्लोक 6.7.30
दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ 30 ॥
श्लोक 6.7.31
तस्मात् पितॄणामार्तानामार्तिं परपराभवम् । तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ 31 ॥
श्लोक 6.7.32
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ 32 ॥
श्लोक 6.7.33
न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्यभिवादनम् । छन्दोभ्यो ऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ 33 ॥
श्लोक 6.7.34
अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः । स विश्वरूपस्तान् आह प्रसन्नः श्लक्ष्णया गिरा ॥ 34 ॥
श्लोक 6.7.35
विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् । कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ 35 ॥
श्लोक 6.7.36
अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः । कथं विगर्ह्यं नु करोम्य् अधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥ 36 ॥
श्लोक 6.7.37
तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ 37 ॥
श्लोक 6.7.38
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ 38 ॥
श्लोक 6.7.39
सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया । आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥ 39 ॥
श्लोक 6.7.40
यया गुप्तः सहस्राक्षो जिग्ये ऽसुरचमूर्विभुः । तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ 40 ॥