मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 8

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.8.1

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1 ॥

श्लोक 6.8.2

भगवंस्तन् ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून् येन गुप्तो ऽजयन् मृधे ॥ 2 ॥

श्लोक 6.8.3

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3 ॥

श्लोक 6.8.4

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ 4 ॥

श्लोक 6.8.5

नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्य् अथोरसि ॥ 5 ॥

श्लोक 6.8.6

मुखे शिरस्य् आनुपूर्व्यादोंकारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ 6 ॥

श्लोक 6.8.7

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ 7 ॥

श्लोक 6.8.8

न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ 8 ॥

श्लोक 6.8.9

वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ 9 ॥

श्लोक 6.8.10

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति ॥ 10 ॥

श्लोक 6.8.11

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ 11 ॥

श्लोक 6.8.12

ॐ हरिर्विदध्यान् मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप पाशान् दधानो ऽष्टगुणो ऽष्टबाहुः ॥ 12 ॥

श्लोक 6.8.13

जलेषु मां रक्षतु मत्स्यमूर्तिर् यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनो ऽव्यात् त्रिविक्रमः खे ऽवतु विश्वरूपः ॥ 13 ॥

श्लोक 6.8.14

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान् नृसिंहो ऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14 ॥

श्लोक 6.8.15

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामो ऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो ऽव्याद्भरताग्रजो ऽस्मान् ॥ 15 ॥

श्लोक 6.8.16

मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ 16 ॥

श्लोक 6.8.17

सनत्कुमारो ऽवतु कामदेवाद् धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ 17 ॥

श्लोक 6.8.18

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज् जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ 18 ॥

श्लोक 6.8.19

द्वैपायनो भगवान् अप्रबोधाद् बुद्धस्तु पाषण्डगणप्रमादात् । कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ 19 ॥

श्लोक 6.8.20

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर् मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ 20 ॥

श्लोक 6.8.21

देवो ऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एको ऽवतु पद्मनाभः ॥ 21 ॥

श्लोक 6.8.22

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो ऽसिधरो जनार्दनः । दामोदरो ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ 22 ॥

श्लोक 6.8.23

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्य् अरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ 23 ॥

श्लोक 6.8.24

गदे ऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्य् अजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24 ॥

श्लोक 6.8.25

त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो ऽरेर्हृदयानि कम्पयन् ॥ 25 ॥

श्लोक 6.8.26

त्वं तिग्मधारासिवरारिसैन्यम् ईशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन् छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ 26 ॥

श्लोक 6.8.27

यन् नो भयं ग्रहेभ्यो ऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो ऽंहोभ्य एव च ॥ 27 ॥

श्लोक 6.8.28

सर्वाण्य् एतानि भगवन् नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ 28 ॥

श्लोक 6.8.29

गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥

श्लोक 6.8.30

सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ 30 ॥

श्लोक 6.8.31

यथा हि भगवान् एव वस्तुतः सदसच् च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ 31 ॥

श्लोक 6.8.32

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ 32 ॥

श्लोक 6.8.33

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33 ॥

श्लोक 6.8.34

विदिक्षु दिक्षूर्ध्वमधः समन्ताद् अन्तर्बहिर्भगवान् नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ 34 ॥

श्लोक 6.8.35

मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसे ऽञ्जसा येन दंशितो ऽसुरयूथपान् ॥ 35 ॥

श्लोक 6.8.36

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ 36 ॥

श्लोक 6.8.37

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ 37 ॥

श्लोक 6.8.38

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ 38 ॥

श्लोक 6.8.39

तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ 39 ॥

श्लोक 6.8.40

गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्शिराः । स वालिखिल्यवचनादस्थीन्य् आदाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40 ॥

श्लोक 6.8.41

य इदं शृणुयात् काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ 41 ॥

श्लोक 6.8.42

एतां विद्यामधिगतो विश्वरूपाच् छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे ऽसुरान् ॥ 42 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ