मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 10

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.10.1

भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ 1 ॥

श्लोक 7.10.2

मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ 2 ॥

श्लोक 7.10.3

भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ 3 ॥

श्लोक 7.10.4

नान्यथा ते ऽखिलगुरो घटेत करुणात्मनः । यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥ 4 ॥

श्लोक 7.10.5

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ 5 ॥

श्लोक 7.10.6

अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ 6 ॥

श्लोक 7.10.7

यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ 7 ॥

श्लोक 7.10.8

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः । ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ 8 ॥

श्लोक 7.10.9

विमुञ्चति यदा कामान् मानवो मनसि स्थितान् । तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ 9 ॥

श्लोक 7.10.10

ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने । हरये ऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ 10 ॥

श्लोक 7.10.11

नैकान्तिनो मे मयि जात्विहाशिष आशासते ऽमुत्र च ये भवद्विधाः । तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ 11 ॥

श्लोक 7.10.12

कथा मदीया जुषमाणः प्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥ 12 ॥

श्लोक 7.10.13

भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा । कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥ 13 ॥

श्लोक 7.10.14

य एतत् कीर्तयेन् मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन् काले कर्मबन्धात् प्रमुच्यते ॥ 14 ॥

श्लोक 7.10.15

वरं वरय एतत् ते वरदेशान् महेश्वर । यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ 15 ॥

श्लोक 7.10.16

विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ 16 ॥

श्लोक 7.10.17

तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्ते ऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥ 17 ॥

श्लोक 7.10.18

त्रिःसप्तभिः पिता पूतः पितृभिः सह ते ऽनघ । यत् साधो ऽस्य कुले जातो भवान् वै कुलपावनः ॥ 18 ॥

श्लोक 7.10.19

यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः । साधवः समुदाचारास्ते पूयन्ते ऽपि कीकटाः ॥ 19 ॥

श्लोक 7.10.20

सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः ॥ 20 ॥

श्लोक 7.10.21

भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ 21 ॥

श्लोक 7.10.22

कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ 22 ॥

श्लोक 7.10.23

पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥ 23 ॥

श्लोक 7.10.24

प्रह्रादो ऽपि तथा चक्रे पितुर्यत् साम्परायिकम् । यथाह भगवान् राजन्नभिषिक्तो द्विजातिभिः ॥ 24 ॥

श्लोक 7.10.25

प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ 25 ॥

श्लोक 7.10.26

देवदेवाखिलाध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापो लोकसन्तापनो ऽसुरः ॥ 26 ॥

श्लोक 7.10.27

यो ऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः । तपोयोगबलोन्नद्धः समस्तनिगमान् अहन् ॥ 27 ॥

श्लोक 7.10.28

दिष्ट्या तत्तनयः साधुर्महाभागवतो ऽर्भकः । त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितो ऽधुना ॥ 28 ॥

श्लोक 7.10.29

एतद्वपुस्ते भगवन् ध्यायतः परमात्मनः । सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ 29 ॥

श्लोक 7.10.30

मैवं विभो ऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ 30 ॥

श्लोक 7.10.31

इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरिः । अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ 31 ॥

श्लोक 7.10.32

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ 32 ॥

श्लोक 7.10.33

ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम् ॥ 33 ॥

श्लोक 7.10.34

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ 34 ॥

श्लोक 7.10.35

एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः । हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ 35 ॥

श्लोक 7.10.36

पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ 36 ॥

श्लोक 7.10.37

शयानौ युधि निर्भिन्न हृदयौ रामशायकैः । तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ 37 ॥

श्लोक 7.10.38

ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ 38 ॥

श्लोक 7.10.39

एनः पूर्वकृतं यत् तद्राजानः कृष्णवैरिणः । जहुस्ते ऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ 39 ॥

श्लोक 7.10.40

यथा यथा भगवतो भक्त्या परमयाभिदा । नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ 40 ॥

श्लोक 7.10.41

आख्यातं सर्वमेतत् ते यन् मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ 41 ॥

श्लोक 7.10.42

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ 42 ॥

श्लोक 7.10.43

प्रह्रादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ॥ 43 ॥

श्लोक 7.10.44

सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ 44 ॥

श्लोक 7.10.45

धर्मो भागवतानां च भगवान् येन गम्यते । आख्याने ऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः ॥ 45 ॥

श्लोक 7.10.46

य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् । कीर्तयेच् छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ 46 ॥

श्लोक 7.10.47

एतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवधं प्रयतः पठेत &अम्प्; दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ 47 ॥

श्लोक 7.10.48

यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ 48 ॥

श्लोक 7.10.49

स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ 49 ॥

श्लोक 7.10.50

न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ 50 ॥

श्लोक 7.10.51

स एष भगवान् राजन् व्यतनोद्विहतं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ 51 ॥

श्लोक 7.10.52

कस्मिन् कर्मणि देवस्य मयो ऽहन् जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ 52 ॥

श्लोक 7.10.53

निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः । मायिनां परमाचार्यं मयं शरणमाययुः ॥ 53 ॥

श्लोक 7.10.54

स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ 54 ॥

श्लोक 7.10.55

ताभिस्ते ऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान् नृप । स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ॥ 55 ॥

श्लोक 7.10.56

ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः । त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ 56 ॥

श्लोक 7.10.57

अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः । शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ 57 ॥

श्लोक 7.10.58

ततो ऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ 58 ॥

श्लोक 7.10.59

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः । तान् आनीय महायोगी मयः कूपरसे ऽक्षिपत् ॥ 59 ॥

श्लोक 7.10.60

सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥ 60 ॥

श्लोक 7.10.61

विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् ॥ 61 ॥

श्लोक 7.10.62

वत्सश्चासीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ 62 ॥

श्लोक 7.10.63

ते ऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः । तद्विज्ञाय महायोगी रसपालान् इदं जगौ ॥ 63 ॥

श्लोक 7.10.64

स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् । देवो ऽसुरो नरो ऽन्यो वा नेश्वरो ऽस्तीह कश्चन ॥ 64 ॥

श्लोक 7.10.65

आत्मनो ऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः । अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ 65 ॥

श्लोक 7.10.66

धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् ॥ 66 ॥

श्लोक 7.10.67

सन्नद्धो रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्ते ऽभिजितीश्वरः ॥ 67 ॥

श्लोक 7.10.68

ददाह तेन दुर्भेद्या हरो ऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ॥ 68 ॥

श्लोक 7.10.69

देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥ 69 ॥

श्लोक 7.10.70

एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप । ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥ 70 ॥

श्लोक 7.10.71

एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोर् लोकं पुनानान्यपरं वदामि किम् ॥ 71 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ