मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 11

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.11.1

श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ 1 ॥

श्लोक 7.11.2

भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ 2 ॥

श्लोक 7.11.3

भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ 3 ॥

श्लोक 7.11.4

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ 4 ॥

श्लोक 7.11.5

नत्वा भगवते ऽजाय लोकानां धर्मसेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच् छ्रुतम् ॥ 5 ॥

श्लोक 7.11.6

यो ऽवतीर्यात्मनो ऽंशेन दाक्षायण्यां तु धर्मतः । लोकानां स्वस्तये ऽध्यास्ते तपो बदरिकाश्रमे ॥ 6 ॥

श्लोक 7.11.7

धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ 7 ॥

श्लोक 7.11.8

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ 8 ॥

श्लोक 7.11.9

सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ 9 ॥

श्लोक 7.11.10

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ 10 ॥

श्लोक 7.11.11

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ 11 ॥

श्लोक 7.11.12

नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ 12 ॥

श्लोक 7.11.13

संस्कारा यत्राविच्छिन्नाः स द्विजो ऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ 13 ॥

श्लोक 7.11.14

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥ 14 ॥

श्लोक 7.11.15

वैश्यस्तु वार्तावृत्तिः स्यान् नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ 15 ॥

श्लोक 7.11.16

वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ 16 ॥

श्लोक 7.11.17

जघन्यो नोत्तमां वृत्तिमनापदि भजेन् नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ 17 ॥

श्लोक 7.11.18

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ 18 ॥

श्लोक 7.11.19

ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् । मृतं तु नित्ययाच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ 19 ॥

श्लोक 7.11.20

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ 20 ॥

श्लोक 7.11.21

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ 21 ॥

श्लोक 7.11.22

शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ 22 ॥

श्लोक 7.11.23

देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ 23 ॥

श्लोक 7.11.24

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ 24 ॥

श्लोक 7.11.25

स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ 25 ॥

श्लोक 7.11.26

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ 26 ॥

श्लोक 7.11.27

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ 27 ॥

श्लोक 7.11.28

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ 28 ॥

श्लोक 7.11.29

या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ 29 ॥

श्लोक 7.11.30

वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ 30 ॥

श्लोक 7.11.31

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ 31 ॥

श्लोक 7.11.32

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ 32 ॥

श्लोक 7.11.33

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ 33 ॥

श्लोक 7.11.34

एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन्नग्निवत् कामबिन्दुभिः ॥ 34 ॥

श्लोक 7.11.35

यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ 35 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ