श्रीमद्भागवत सप्तम स्कन्ध अध्याय 12
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.12.1
ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् । आचरन् दासवन् नीचो गुरौ सुदृढसौहृदः ॥ 1 ॥
श्लोक 7.12.2
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग् जपन् ब्रह्म समाहितः ॥ 2 ॥
श्लोक 7.12.3
छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः । उपक्रमे ऽवसाने च चरणौ शिरसा नमेत् ॥ 3 ॥
श्लोक 7.12.4
मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ 4 ॥
श्लोक 7.12.5
सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन् निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ 5 ॥
श्लोक 7.12.6
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ 6 ॥
श्लोक 7.12.7
वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ 7 ॥
श्लोक 7.12.8
केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन् नात्मनो युवा ॥ 8 ॥
श्लोक 7.12.9
नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ 9 ॥
श्लोक 7.12.10
कल्पयित्वात्मना यावदाभासमिदमीश्वरः । द्वैतं तावन् न विरमेत् ततो ह्यस्य विपर्ययः ॥ 10 ॥
श्लोक 7.12.11
एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ 11 ॥
श्लोक 7.12.12
अञ्जनाभ्यञ्जनोन्मर्द स्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः ॥ 12 ॥
श्लोक 7.12.13
उषित्वैवं गुरुकुले द्विजो ऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ 13 ॥
श्लोक 7.12.14
दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ 14 ॥
श्लोक 7.12.15
अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ 15 ॥
श्लोक 7.12.16
एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ 16 ॥
श्लोक 7.12.17
वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । यान् आस्थाय मुनिर्गच्छेदृषिलोकमुहाञ्जसा ॥ 17 ॥
श्लोक 7.12.18
न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः । अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ 18 ॥
श्लोक 7.12.19
वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवे ऽन्नाद्ये पुराणं च परित्यजेत् ॥ 19 ॥
श्लोक 7.12.20
अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ 20 ॥
श्लोक 7.12.21
केशरोमनखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ 21 ॥
श्लोक 7.12.22
चरेद्वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥ 22 ॥
श्लोक 7.12.23
यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ 23 ॥
श्लोक 7.12.24
आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ 24 ॥
श्लोक 7.12.25
खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ 25 ॥
श्लोक 7.12.26
वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ 26 ॥
श्लोक 7.12.27
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ 27 ॥
श्लोक 7.12.28
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ 28 ॥
श्लोक 7.12.29
मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ 29 ॥
श्लोक 7.12.30
अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच् च महति तदव्यक्ते ऽक्षरे च तत् ॥ 30 ॥
श्लोक 7.12.31
इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयो ऽथ विरमेद्दग्धयोनिरिवानलः ॥ 31 ॥