मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 13

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.13.1

कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामैकरात्रविधिना निरपेक्षश्चरेन् महीम् ॥ 1 ॥

श्लोक 7.13.2

बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् । त्यक्तं न लिङ्गाद्दण्डादेरन्यत् किञ्चिदनापदि ॥ 2 ॥

श्लोक 7.13.3

एक एव चरेद्भिक्षुरात्मारामो ऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ 3 ॥

श्लोक 7.13.4

पश्येदात्मन्यदो विश्वं परे सदसतो ऽव्यये । आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ 4 ॥

श्लोक 7.13.5

सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् । पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ 5 ॥

श्लोक 7.13.6

नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् । कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ 6 ॥

श्लोक 7.13.7

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । वादवादांस्त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् ॥ 7 ॥

श्लोक 7.13.8

न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ 8 ॥

श्लोक 7.13.9

न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः । शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ 9 ॥

श्लोक 7.13.10

अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् । कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम् ॥ 10 ॥

श्लोक 7.13.11

अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ 11 ॥

श्लोक 7.13.12

तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥ 12 ॥

श्लोक 7.13.13

ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया । वृतो ऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः ॥ 13 ॥

श्लोक 7.13.14

कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः । न विदन्ति जना यं वै सो ऽसाविति न वेति च ॥ 14 ॥

श्लोक 7.13.15

तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् । विवित्सुरिदमप्राक्षीन् महाभागवतो ऽसुरः ॥ 15 ॥

श्लोक 7.13.16

बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा । वित्तं चैवोद्यमवतां भोगो वित्तवतामिह । भोगिनां खलु देहो ऽयं पीवा भवति नान्यथा ॥ 16 ॥

श्लोक 7.13.17

न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः । अभोगिनो ऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् ॥ 17 ॥

श्लोक 7.13.18

कविः कल्पो निपुणदृक् चित्रप्रियकथः समः । लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥ 18 ॥

श्लोक 7.13.19

स इत्थं दैत्यपतिना परिपृष्टो महामुनिः । स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥ 19 ॥

श्लोक 7.13.20

वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः । ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥ 20 ॥

श्लोक 7.13.21

यस्य नारायणो देवो भगवान् हृद्गतः सदा । भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ 21 ॥

श्लोक 7.13.22

तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् । सम्भाषणीयो हि भवान् आत्मनः शुद्धिमिच्छता ॥ 22 ॥

श्लोक 7.13.23

तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया । कर्माणि कार्यमाणो ऽहं नानायोनिषु योजितः ॥ 23 ॥

श्लोक 7.13.24

यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ 24 ॥

श्लोक 7.13.25

तत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तो ऽस्मि विपर्ययम् ॥ 25 ॥

श्लोक 7.13.26

सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ 26 ॥

श्लोक 7.13.27

इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ 27 ॥

श्लोक 7.13.28

जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेत् तथान्यत्रार्थदृक् स्वतः ॥ 28 ॥

श्लोक 7.13.29

देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ 29 ॥

श्लोक 7.13.30

आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ 30 ॥

श्लोक 7.13.31

पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतो ऽभिविशङ्किनाम् ॥ 31 ॥

श्लोक 7.13.32

राजतश्चौरतः शत्रोः स्वजनात् पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम् ॥ 32 ॥

श्लोक 7.13.33

शोकमोहभयक्रोध रागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः ॥ 33 ॥

श्लोक 7.13.34

मधुकारमहासर्पौ लोके ऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ 34 ॥

श्लोक 7.13.35

विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत् पतिम् ॥ 35 ॥

श्लोक 7.13.36

अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच् छये बह्वहानि महाहिरिव सत्त्ववान् ॥ 36 ॥

श्लोक 7.13.37

क्वचिदल्पं क्वचिद्भूरि भुञ्जे ऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ 37 ॥

श्लोक 7.13.38

श्रद्धयोपहृतं क्वापि कदाचिन् मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ 38 ॥

श्लोक 7.13.39

क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसे ऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ 39 ॥

श्लोक 7.13.40

क्वचिच् छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ 40 ॥

श्लोक 7.13.41

क्वचित् स्नातो ऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः । रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥ 41 ॥

श्लोक 7.13.42

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ 42 ॥

श्लोक 7.13.43

विकल्पं जुहुयाच् चित्तौ तां मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ 43 ॥

श्लोक 7.13.44

आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः । ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः ॥ 44 ॥

श्लोक 7.13.45

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् । व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः ॥ 45 ॥

श्लोक 7.13.46

धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः । पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ