श्रीमद्भागवत सप्तम स्कन्ध अध्याय 3
श्रीमद्भागवत सप्तम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 7.3.1
हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ 1 ॥
श्लोक 7.3.2
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ 2 ॥
श्लोक 7.3.3
जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥ 3 ॥
श्लोक 7.3.4
तस्य मूर्ध्नः समुद्भूतः सधूमो ऽग्निस्तपोमयः । तीर्यग् ऊर्ध्वमधो लोकान् प्रातपद्विष्वग् ईरितः ॥ 4 ॥
श्लोक 7.3.5
चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ 5 ॥
श्लोक 7.3.6
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥ 6 ॥
श्लोक 7.3.7
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावन् नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥ 7 ॥
श्लोक 7.3.8
तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः । श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ 8 ॥
श्लोक 7.3.9
सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ 9 ॥
श्लोक 7.3.10
तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात् साधयिष्ये तथात्मनः ॥ 10 ॥
श्लोक 7.3.11
अन्यथेदं विधास्ये ऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥ 11 ॥
श्लोक 7.3.12
इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ 12 ॥
श्लोक 7.3.13
तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ 13 ॥
श्लोक 7.3.14
इति विज्ञापितो देवैर्भगवान् आत्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ 14 ॥
श्लोक 7.3.15
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् ॥ 15 ॥
श्लोक 7.3.16
तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ 16 ॥
श्लोक 7.3.17
उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धो ऽसि काश्यप । वरदो ऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥ 17 ॥
श्लोक 7.3.18
अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ 18 ॥
श्लोक 7.3.19
नैतत् पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाः शतम् ॥ 19 ॥
श्लोक 7.3.20
व्यवसायेन ते ऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितो ऽहं दितिनन्दन ॥ 20 ॥
श्लोक 7.3.21
ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ 21 ॥
श्लोक 7.3.22
इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ 22 ॥
श्लोक 7.3.23
स तत् कीचकवल्मीकात् सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥ 23 ॥
श्लोक 7.3.24
स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ 24 ॥
श्लोक 7.3.25
उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् ॥ 25 ॥
श्लोक 7.3.26
कल्पान्ते कालसृष्टेन यो ऽन्धेन तमसावृतम् । अभिव्यनग् जगदिदं स्वयञ्ज्योतिः स्वरोचिषा ॥ 26 ॥
श्लोक 7.3.27
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ 27 ॥
श्लोक 7.3.28
नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे ॥ 28 ॥
श्लोक 7.3.29
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रियाणां पतिर्महान् भूतगुणाशयेशः ॥ 29 ॥
श्लोक 7.3.30
त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिर् अनन्तपारः कविरन्तरात्मा ॥ 30 ॥
श्लोक 7.3.31
त्वमेव कालो ऽनिमिषो जनानाम् आयुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस् त्वं जीवलोकस्य च जीव आत्मा ॥ 31 ॥
श्लोक 7.3.32
त्वत्तः परं नापरमप्यनेजद् एजच् च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भो ऽसि बृहत् त्रिपृष्ठः ॥ 32 ॥
श्लोक 7.3.33
व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ॥ 33 ॥
श्लोक 7.3.34
अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ 34 ॥
श्लोक 7.3.35
यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून् मम प्रभो ॥ 35 ॥
श्लोक 7.3.36
नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ 36 ॥
श्लोक 7.3.37
व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ 37 ॥
श्लोक 7.3.38
सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन् न रिष्यति कर्हिचित् ॥ 38 ॥