मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 4

श्रीमद्भागवत सप्तम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 7.4.1

एवं वृतः शतधृतिर्हिरण्यकशिपोरथ । प्रादात् तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ 1 ॥

श्लोक 7.4.2

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ 2 ॥

श्लोक 7.4.3

ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितो ऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ 3 ॥

श्लोक 7.4.4

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः । भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् ॥ 4 ॥

श्लोक 7.4.5

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः । देवासुरमनुष्येन्द्र गन्धर्वगरुडोरगान् ॥ 5 ॥

श्लोक 7.4.6

सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीन् अपि ॥ 6 ॥

श्लोक 7.4.7

सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ 7 ॥

श्लोक 7.4.8

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ 8 ॥

श्लोक 7.4.9

यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ 9 ॥

श्लोक 7.4.10

यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ 10 ॥

श्लोक 7.4.11

कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ 11 ॥

श्लोक 7.4.12

तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमे ऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ 12 ॥

श्लोक 7.4.13

तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ 13 ॥

श्लोक 7.4.14

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयो ऽस्तुवन् मुहुर् विद्याधराश्चाप्सरसश्च पाण्डव ॥ 14 ॥

श्लोक 7.4.15

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ 15 ॥

श्लोक 7.4.16

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ 16 ॥

श्लोक 7.4.17

रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ 17 ॥

श्लोक 7.4.18

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानामेक एव पृथग् गुणान् ॥ 18 ॥

श्लोक 7.4.19

स इत्थं निर्जितककुब् एकराड् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ 19 ॥

श्लोक 7.4.20

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥ 20 ॥

श्लोक 7.4.21

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ 21 ॥

श्लोक 7.4.22

तस्यै नमो ऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः ॥ 22 ॥

श्लोक 7.4.23

इति ते संयतात्मानः समाहितधियो ऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ 23 ॥

श्लोक 7.4.24

तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥ 24 ॥

श्लोक 7.4.25

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ 25 ॥

श्लोक 7.4.26

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥ 26 ॥

श्लोक 7.4.27

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ 27 ॥

श्लोक 7.4.28

निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्ये ऽपि वरोर्जितम् ॥ 28 ॥

श्लोक 7.4.29

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ 29 ॥

श्लोक 7.4.30

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्रादो ऽभून् महांस्तेषां गुणैर्महदुपासकः ॥ 30 ॥

श्लोक 7.4.31

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत् सर्वभूतानामेकप्रियसुहृत्तमः ॥ 31 ॥

श्लोक 7.4.32

दासवत् सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः । भ्रातृवत् सदृशे स्निग्धो गुरुष्वीश्वरभावनः । विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ 32 ॥

श्लोक 7.4.33

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरो ऽसुरः ॥ 33 ॥

श्लोक 7.4.34

यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न ते ऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ 34 ॥

श्लोक 7.4.35

यं साधुगाथासदसि रिपवो ऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ 35 ॥

श्लोक 7.4.36

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ 36 ॥

श्लोक 7.4.37

न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ 37 ॥

श्लोक 7.4.38

आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ 38 ॥

श्लोक 7.4.39

क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित् ॥ 39 ॥

श्लोक 7.4.40

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित् तद्भावनायुक्तस्तन्मयो ऽनुचकार ह ॥ 40 ॥

श्लोक 7.4.41

क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ 41 ॥

श्लोक 7.4.42

स उत्तमश्लोकपदारविन्दयोर् निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुर् दुःसङ्गदीनस्य मनः शमं व्यधात् ॥ 42 ॥

श्लोक 7.4.43

तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ 43 ॥

श्लोक 7.4.44

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ 44 ॥

श्लोक 7.4.45

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ 45 ॥

श्लोक 7.4.46

किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् । एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ