श्रीमद्भागवत अष्टम स्कन्ध अध्याय 15
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.15.1
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूतेश्वरः कृपणवल् लब्धार्थो ऽपि बबन्ध तम् ॥ 1 ॥
श्लोक 8.15.2
एतद्वेदितुमिच्छामो महत् कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः ॥ 2 ॥
श्लोक 8.15.3
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः । सर्वात्मना तान् अभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन ॥ 3 ॥
श्लोक 8.15.4
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम् । जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥ 4 ॥
श्लोक 8.15.5
ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः । ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ॥ 5 ॥
श्लोक 8.15.6
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् । पितामहस्तस्य ददौ च मालाम् अम्लानपुष्पां जलजं च शुक्रः ॥ 6 ॥
श्लोक 8.15.7
एवं स विप्रार्जितयोधनार्थस् तैः कल्पितस्वस्त्ययनो ऽथ विप्रान् । प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार ॥ 7 ॥
श्लोक 8.15.8
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः । सुस्रग्धरो ऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ 8 ॥
श्लोक 8.15.9
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः । रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ 9 ॥
श्लोक 8.15.10
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः । पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीन् इव ॥ 10 ॥
श्लोक 8.15.11
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः । ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ 11 ॥
श्लोक 8.15.12
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ 12 ॥
श्लोक 8.15.13
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः । हंससारसचक्राह्व कारण्डवकुलाकुलाः । नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ 13 ॥
श्लोक 8.15.14
आकाशगङ्गया देव्या वृतां परिखभूतया । प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ 14 ॥
श्लोक 8.15.15
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः । जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ 15 ॥
श्लोक 8.15.16
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् । शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ 16 ॥
श्लोक 8.15.17
यत्र नित्यवयोरूपाः श्यामा विरजवाससः । भ्राजन्ते रूपवन्नार्यो ह्य् अर्चिर्भिरिव वह्नयः ॥ 17 ॥
श्लोक 8.15.18
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् । यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ 18 ॥
श्लोक 8.15.19
हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना । पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः ॥ 19 ॥
श्लोक 8.15.20
मुक्तावितानैर्मणिहेमकेतुभिर् नानापताकावलभीभिरावृताम् । शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ 20 ॥
श्लोक 8.15.21
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः । नृत्यैः सवाद्यैरुपदेवगीतकैर् मनोरमां स्वप्रभया जितप्रभाम् ॥ 21 ॥
श्लोक 8.15.22
यां न व्रजन्त्य् अधर्मिष्ठाः खला भूतद्रुहः शठाः । मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ 22 ॥
श्लोक 8.15.23
तां देवधानीं स वरूथिनीपतिर् बहिः समन्ताद्रुरुधे पृतन्यया । आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ 23 ॥
श्लोक 8.15.24
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् । सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ 24 ॥
श्लोक 8.15.25
भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः । अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः ॥ 25 ॥
श्लोक 8.15.26
नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः । पिबन्निव मुखेनेदं लिहन्निव दिशो दश । दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ 26 ॥
श्लोक 8.15.27
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः । ओजः सहो बलं तेजो यत एतत् समुद्यमः ॥ 27 ॥
श्लोक 8.15.28
जानामि मघवन् छत्रोरुन्नतेरस्य कारणम् । शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ 28 ॥
श्लोक 8.15.29
ओजस्विनं बलिं जेतुं न समर्थो ऽस्ति कश्चन । भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् ॥ 29 ॥
श्लोक 8.15.30
विजेष्यति न को ऽप्य् एनं ब्रह्मतेजःसमेधितम् । नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ 30 ॥
श्लोक 8.15.31
तस्मान् निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ 31 ॥
श्लोक 8.15.32
एष विप्रबलोदर्कः सम्प्रत्य् ऊर्जितविक्रमः । तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ 32 ॥
श्लोक 8.15.33
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना । हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ 33 ॥
श्लोक 8.15.34
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् । देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ 34 ॥
श्लोक 8.15.35
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः । शतेन हयमेधानामनुव्रतमयाजयन् ॥ 35 ॥
श्लोक 8.15.36
ततस्तदनुभावेन भुवनत्रयविश्रुताम् । कीर्तिं दिक्षुवितन्वानः स रेज उडुराड् इव ॥ 36 ॥
श्लोक 8.15.37
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् । कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ 37 ॥