श्रीमद्भागवत अष्टम स्कन्ध अध्याय 16
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.16.1
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ 1 ॥
श्लोक 8.16.2
एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ 2 ॥
श्लोक 8.16.3
स पत्नीं दीनवदनां कृतासनपरिग्रहः । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ 3 ॥
श्लोक 8.16.4
अप्य् अभद्रं न विप्राणां भद्रे लोके ऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ 4 ॥
श्लोक 8.16.5
अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् ॥ 5 ॥
श्लोक 8.16.6
अपि वातिथयो ऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ 6 ॥
श्लोक 8.16.7
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ 7 ॥
श्लोक 8.16.8
अप्य् अग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ 8 ॥
श्लोक 8.16.9
यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । ब्राह्मणो ऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ 9 ॥
श्लोक 8.16.10
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षये ऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ 10 ॥
श्लोक 8.16.11
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ 11 ॥
श्लोक 8.16.12
अग्नयो ऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन्ननुध्यानान् न रिष्यति ॥ 12 ॥
श्लोक 8.16.13
को नु मे भगवन् कामो न सम्पद्येत मानसः । यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ 13 ॥
श्लोक 8.16.14
तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥ 14 ॥
श्लोक 8.16.15
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ 15 ॥
श्लोक 8.16.16
परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ 16 ॥
श्लोक 8.16.17
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ 17 ॥
श्लोक 8.16.18
एवमभ्यर्थितो ऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ 18 ॥
श्लोक 8.16.19
क्व देहो भौतिको ऽनात्मा क्व चात्मा प्रकृतेः परः । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ 19 ॥
श्लोक 8.16.20
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ 20 ॥
श्लोक 8.16.21
स विधास्यति ते कामान् हरिर्दीनानुकम्पनः । अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ 21 ॥
श्लोक 8.16.22
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ 22 ॥
श्लोक 8.16.23
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ 23 ॥
श्लोक 8.16.24
एतन् मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ 24 ॥
श्लोक 8.16.25
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ 25 ॥
श्लोक 8.16.26
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्य् एतं मन्त्रमुदीरयेत् ॥ 26 ॥
श्लोक 8.16.27
त्वं देव्य् आदिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ 27 ॥
श्लोक 8.16.28
निर्वर्तितात्मनियमो देवमर्चेत् समाहितः । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ 28 ॥
श्लोक 8.16.29
नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ 29 ॥
श्लोक 8.16.30
नमो ऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ 30 ॥
श्लोक 8.16.31
नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ 31 ॥
श्लोक 8.16.32
नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नमः ॥ 32 ॥
श्लोक 8.16.33
नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ 33 ॥
श्लोक 8.16.34
नमस्त आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ 34 ॥
श्लोक 8.16.35
नमो मरकतश्याम वपुषे ऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ 35 ॥
श्लोक 8.16.36
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ 36 ॥
श्लोक 8.16.37
अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ 37 ॥
श्लोक 8.16.38
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ 38 ॥
श्लोक 8.16.39
अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् । वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः । गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ 39 ॥
श्लोक 8.16.40
शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ 40 ॥
श्लोक 8.16.41
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ 41 ॥
श्लोक 8.16.42
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन् मुदा ॥ 42 ॥
श्लोक 8.16.43
कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् ततः । द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥ 43 ॥
श्लोक 8.16.44
भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । ब्रह्मचार्य् अथ तद्रात्र्यां श्वो भूते प्रथमे ऽहनि ॥ 44 ॥
श्लोक 8.16.45
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥ 45 ॥
श्लोक 8.16.46
पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः । पूर्ववज् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ 46 ॥
श्लोक 8.16.47
एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ 47 ॥
श्लोक 8.16.48
प्रतिपद्दिनमारभ्य यावच् छुक्लत्रयोदशीम् । ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ 48 ॥
श्लोक 8.16.49
वर्जयेदसदालापं भोगान् उच्चावचांस्तथा । अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ 49 ॥
श्लोक 8.16.50
त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः । कारयेच् छास्त्रदृष्टेन विधिना विधिकोविदैः ॥ 50 ॥
श्लोक 8.16.51
पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ 51 ॥
श्लोक 8.16.52
सूक्तेन तेन पुरुषं यजेत सुसमाहितः । नैवेद्यं चातिगुणवद्दद्यात् पुरुषतुष्टिदम् ॥ 52 ॥
श्लोक 8.16.53
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । तोषयेदृत्विजश्चैव तद्विद्ध्य् आराधनं हरेः ॥ 53 ॥
श्लोक 8.16.54
भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणान् छक्त्या ये च तत्र समागताः ॥ 54 ॥
श्लोक 8.16.55
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः । अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ 55 ॥
श्लोक 8.16.56
भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ 56 ॥
श्लोक 8.16.57
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । कारयेत् तत्कथाभिश्च पूजां भगवतो ऽन्वहम् ॥ 57 ॥
श्लोक 8.16.58
एतत् पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ 58 ॥
श्लोक 8.16.59
त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ 59 ॥
श्लोक 8.16.60
अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ 60 ॥
श्लोक 8.16.61
त एव नियमाः साक्षात् त एव च यमोत्तमाः । तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः ॥ 61 ॥
श्लोक 8.16.62
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान् परितुष्टस्ते वरान् आशु विधास्यति ॥ 62 ॥