श्रीमद्भागवत अष्टम स्कन्ध अध्याय 17
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.17.1
इत्य् उक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥ 1 ॥
श्लोक 8.17.2
चिन्तयन्त्य् एकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ 2 ॥
श्लोक 8.17.3
मनश्चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ 3 ॥
श्लोक 8.17.4
तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ 4 ॥
श्लोक 8.17.5
तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥ 5 ॥
श्लोक 8.17.6
सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृतिस् तद्दर्शनात्युत्सवगात्रवेपथुः ॥ 6 ॥
श्लोक 8.17.7
प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्य् अदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ 7 ॥
श्लोक 8.17.8
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ 8 ॥
श्लोक 8.17.9
विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितपूर्णबोध व्यापादितात्मतमसे हरये नमस्ते ॥ 9 ॥
श्लोक 8.17.10
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् द्योभूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ 10 ॥
श्लोक 8.17.11
अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ 11 ॥
श्लोक 8.17.12
देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् । यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥ 12 ॥
श्लोक 8.17.13
तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्य् उपासितुम् ॥ 13 ॥
श्लोक 8.17.14
इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् । स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ 14 ॥
श्लोक 8.17.15
आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः । नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ 15 ॥
श्लोक 8.17.16
प्रायो ऽधुना ते ऽसुरयूथनाथा अपारणीया इति देवि मे मतिः । यत् ते ऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ 16 ॥
श्लोक 8.17.17
अथाप्य् उपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते । ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ 17 ॥
श्लोक 8.17.18
त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्य् अधिष्ठितः ॥ 18 ॥
श्लोक 8.17.19
उपधाव पतिं भद्रे प्रजापतिमकल्मषम् । मां च भावयती पत्यावेवं रूपमवस्थितम् ॥ 19 ॥
श्लोक 8.17.20
नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ 20 ॥
श्लोक 8.17.21
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत । अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ 21 ॥
श्लोक 8.17.22
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ 22 ॥
श्लोक 8.17.23
प्रविष्टमात्मनि हरेरंशं ह्य् अवितथेक्षणः । सो ऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । अमाहितमना राजन् दारुण्य् अग्निं यथानिलः ॥ 23 ॥
श्लोक 8.17.24
अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ 24 ॥
श्लोक 8.17.25
जयोरुगाय भगवन्नुरुक्रम नमो ऽस्तु ते । नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ 25 ॥
श्लोक 8.17.26
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ 26 ॥
श्लोक 8.17.27
त्वमादिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः । कालो भवान् आक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥ 27 ॥
श्लोक 8.17.28
त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः । दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतो ऽप्सु ॥ 28 ॥