श्रीमद्भागवत अष्टम स्कन्ध अध्याय 18
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.18.1
इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् । चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः ॥ 1 ॥
श्लोक 8.18.2
श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् । श्रीवत्सवक्षा बलयाङ्गदोल्लसत् किरीटकाञ्चीगुणचारुनूपुरः ॥ 2 ॥
श्लोक 8.18.3
मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः । प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ 3 ॥
श्लोक 8.18.4
दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः । द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ 4 ॥
श्लोक 8.18.5
श्रोणायां श्रवणद्वादश्यां मुहूर्ते ऽभिजिति प्रभुः । सर्वे नक्षत्रताराद्याश् चक्रुस्तज्जन्म दक्षिणम् ॥ 5 ॥
श्लोक 8.18.6
द्वादश्यां सवितातिष्ठन् मध्यन्दिनगतो नृप । विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ 6 ॥
श्लोक 8.18.7
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलो ऽभवत् ॥ 7 ॥
श्लोक 8.18.8
प्रीताश्चाप्सरसो ऽनृत्यन् गन्धर्वप्रवरा जगुः । तुष्टुवुर्मुनयो देवा मनवः पितरो ऽग्नयः ॥ 8 ॥
श्लोक 8.18.9
सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः । चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ 9 ॥
श्लोक 8.18.10
गायन्तो ऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः । अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ 10 ॥
श्लोक 8.18.11
दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता । गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥ 11 ॥
श्लोक 8.18.12
यत् तद्वपुर्भाति विभूषणायुधैर् अव्यक्तचिद्व्यक्तमधारयद्धरिः । बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ 12 ॥
श्लोक 8.18.13
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः । कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ 13 ॥
श्लोक 8.18.14
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपो ऽददात् ॥ 14 ॥
श्लोक 8.18.15
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः । कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ 15 ॥
श्लोक 8.18.16
कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः । अक्षमालां महाराज सरस्वत्य् अव्ययात्मनः ॥ 16 ॥
श्लोक 8.18.17
तस्मा इत्य् उपनीताय यक्षराट् पात्रिकामदात् । भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ 17 ॥
श्लोक 8.18.18
स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः । ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ 18 ॥
श्लोक 8.18.19
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् । परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥ 19 ॥
श्लोक 8.18.20
श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः । जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे ॥ 20 ॥
श्लोक 8.18.21
तं नर्मदायास्तट उत्तरे बलेर् य ऋत्विजस्ते भृगुकच्छसंज्ञके । प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥ 21 ॥
श्लोक 8.18.22
ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप । सूर्यः किलायात्य् उत वा विभावसुः सनत्कुमारो ऽथ दिदृक्षया क्रतोः ॥ 22 ॥
श्लोक 8.18.23
इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः । छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् ॥ 23 ॥
श्लोक 8.18.24
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् । जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ 24 ॥
श्लोक 8.18.25
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः । प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ 25 ॥
श्लोक 8.18.26
यजमानः प्रमुदितो दर्शनीयं मनोरमम् । रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ 26 ॥
श्लोक 8.18.27
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः । अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ 27 ॥
श्लोक 8.18.28
तत्पादशौचं जनकल्मषापहं स धर्मविन् मूर्ध्न्य् अदधात् सुमङ्गलम् । यद्देवदेवो गिरिशश्चन्द्रमौलिर् दधार मूर्ध्ना परया च भक्त्या ॥ 28 ॥
श्लोक 8.18.29
स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते । ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्धरम् ॥ 29 ॥
श्लोक 8.18.30
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् । अद्य स्विष्टः क्रतुरयं यद्भवान् आगतो गृहान् ॥ 30 ॥
श्लोक 8.18.31
अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः । हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ॥ 31 ॥
श्लोक 8.18.32
यद्यद्वटो वाञ्छसि तत् प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये । गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ 32 ॥