श्रीमद्भागवत अष्टम स्कन्ध अध्याय 19
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.19.1
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् । निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ 1 ॥
श्लोक 8.19.2
वचस्तवैतज् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् । यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः ॥ 2 ॥
श्लोक 8.19.3
न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् । प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ 3 ॥
श्लोक 8.19.4
न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप । युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे ॥ 4 ॥
श्लोक 8.19.5
यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् । प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ 5 ॥
श्लोक 8.19.6
यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् । आत्मानं जयिनं मेने तद्वीर्यं भूर्य् अनुस्मरन् ॥ 6 ॥
श्लोक 8.19.7
निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा । हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ 7 ॥
श्लोक 8.19.8
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ 8 ॥
श्लोक 8.19.9
यतो यतो ऽहं तत्रासौ मृत्युः प्राणभृतामिव । अतो ऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ 9 ॥
श्लोक 8.19.10
एवं स निश्चित्य रिपोः शरीरम् आधावतो निर्विविशे ऽसुरेन्द्र । श्वासानिलान्तर्हितसूक्ष्मदेहस् तत्प्राणरन्ध्रेण विविग्नचेताः ॥ 10 ॥
श्लोक 8.19.11
स तन्निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद । क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥ 11 ॥
श्लोक 8.19.12
अपश्यन्निति होवाच मयान्विष्टमिदं जगत् । भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ 12 ॥
श्लोक 8.19.13
वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् । अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥ 13 ॥
श्लोक 8.19.14
पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः । स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्यो ऽदात् स याचितः ॥ 14 ॥
श्लोक 8.19.15
भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः । ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ 15 ॥
श्लोक 8.19.16
तस्मात् त्वत्तो महीमीषद्वृणे ऽहं वरदर्षभात् । पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ 16 ॥
श्लोक 8.19.17
नान्यत् ते कामये राजन् वदान्याज् जगदीश्वरात् । नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ 17 ॥
श्लोक 8.19.18
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः । त्वं बालो बालिशमतिः स्वार्थं प्रत्य् अबुधो यथा ॥ 18 ॥
श्लोक 8.19.19
मां वचोभिः समाराध्य लोकानामेकमीश्वरम् । पदत्रयं वृणीते यो ऽबुद्धिमान् द्वीपदाशुषम् ॥ 19 ॥
श्लोक 8.19.20
न पुमान् मामुपव्रज्य भूयो याचितुमर्हति । तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ 20 ॥
श्लोक 8.19.21
यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् । न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ 21 ॥
श्लोक 8.19.22
त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते । नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ 22 ॥
श्लोक 8.19.23
सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः । अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ 23 ॥
श्लोक 8.19.24
यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् । नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ 24 ॥
श्लोक 8.19.25
पुंसो ऽयं संसृतेर्हेतुरसन्तोषो ऽर्थकामयोः । यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ 25 ॥
श्लोक 8.19.26
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते । तत् प्रशाम्यत्य् असन्तोषादम्भसेवाशुशुक्षणिः ॥ 26 ॥
श्लोक 8.19.27
तस्मात् त्रीणि पदान्य् एव वृणे त्वद्वरदर्षभात् । एतावतैव सिद्धो ऽहं वित्तं यावत् प्रयोजनम् ॥ 27 ॥
श्लोक 8.19.28
इत्य् उक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् । वामनाय महीं दातुं जग्राह जलभाजनम् ॥ 28 ॥
श्लोक 8.19.29
विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् । जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ 29 ॥
श्लोक 8.19.30
एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः । कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ 30 ॥
श्लोक 8.19.31
प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता । न साधु मन्ये दैत्यानां महान् उपगतो ऽनयः ॥ 31 ॥
श्लोक 8.19.32
एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । दास्यत्य् आच्छिद्य शक्राय मायामाणवको हरिः ॥ 32 ॥
श्लोक 8.19.33
त्रिभिः क्रमैरिमाल् लोकान् विश्वकायः क्रमिष्यति । सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ 33 ॥
श्लोक 8.19.34
क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः । खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ 34 ॥
श्लोक 8.19.35
निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् । प्रतिश्रुतस्य यो ऽनीशः प्रतिपादयितुं भवान् ॥ 35 ॥
श्लोक 8.19.36
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते । दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ 36 ॥
श्लोक 8.19.37
धर्माय यशसे ऽर्थाय कामाय स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ 37 ॥
श्लोक 8.19.38
अत्रापि बह्वृचैर्गीतं शृणु मे ऽसुरसत्तम । सत्यमोमिति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् ॥ 38 ॥
श्लोक 8.19.39
सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते । वृक्षे ऽजीवति तन् न स्यादनृतं मूलमात्मनः ॥ 39 ॥
श्लोक 8.19.40
तद्यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्तते ऽचिरात् । एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः ॥ 40 ॥
श्लोक 8.19.41
पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति । यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् । भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥ 41 ॥
श्लोक 8.19.42
अथैतत् पूर्णमभ्यात्मं यच् च नेत्य् अनृतं वचः । सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः ॥ 42 ॥
श्लोक 8.19.43
स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गोब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् ॥ 43 ॥