मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 20

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.20.1

बलिरेवं गृहपतिः कुलाचार्येण भाषितः । तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ 1 ॥

श्लोक 8.20.2

सत्यं भगवता प्रोक्तं धर्मो ऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ 2 ॥

श्लोक 8.20.3

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ 3 ॥

श्लोक 8.20.4

न ह्य् असत्यात् परो ऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋते ऽलीकपरं नरम् ॥ 4 ॥

श्लोक 8.20.5

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात् ॥ 5 ॥

श्लोक 8.20.6

यद्यद्धास्यति लोके ऽस्मिन् सम्परेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन् न तेन चेत् ॥ 6 ॥

श्लोक 8.20.7

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु ॥ 7 ॥

श्लोक 8.20.8

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालो ऽग्रसील् लोकान् न यशो ऽधिगतं भुवि ॥ 8 ॥

श्लोक 8.20.9

सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ 9 ॥

श्लोक 8.20.10

मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ 10 ॥

श्लोक 8.20.11

यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिमीप्सितां मुने ॥ 11 ॥

श्लोक 8.20.12

यद्यप्य् असावधर्मेण मां बध्नीयादनागसम् । तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ 12 ॥

श्लोक 8.20.13

एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ 13 ॥

श्लोक 8.20.14

एवमश्रद्धितं शिष्यमनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ 14 ॥

श्लोक 8.20.15

दृढं पण्डितमान्य् अज्ञः स्तब्धो ऽस्य् अस्मदुपेक्षया । मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥ 15 ॥

श्लोक 8.20.16

एवं शप्तः स्वगुरुणा सत्यान् न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ 16 ॥

श्लोक 8.20.17

विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ 17 ॥

श्लोक 8.20.18

यजमानः स्वयं तस्य श्रीमत् पादयुगं मुदा । अवनिज्यावहन् मूर्ध्नि तदपो विश्वपावनीः ॥ 18 ॥

श्लोक 8.20.19

तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत् कर्म सर्वे ऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ 19 ॥

श्लोक 8.20.20

नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वान् अदाद्यद्रिपवे जगत्त्रयम् ॥ 20 ॥

श्लोक 8.20.21

तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयस् तिर्यङ्नृदेवा ऋषयो यदासत ॥ 21 ॥

श्लोक 8.20.22

काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ 22 ॥

श्लोक 8.20.23

रसामचष्टाङ्घ्रितले ऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः । पतत्त्रिणो जानुनि विश्वमूर्तेर् ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ 23 ॥

श्लोक 8.20.24

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ 24 ॥

श्लोक 8.20.25

हृद्य् अङ्ग धर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य् अथेन्दुम् । श्रियं च वक्षस्य् अरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ 25 ॥

श्लोक 8.20.26

इन्द्रप्रधानान् अमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान् छ्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ 26 ॥

श्लोक 8.20.27

वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटे ऽधर एव लोभम् ॥ 27 ॥

श्लोक 8.20.28

स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ 28 ॥

श्लोक 8.20.29

नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः ॥ 29 ॥

श्लोक 8.20.30

सर्वात्मनीदं भुवनं निरीक्ष्य सर्वे ऽसुराः कश्मलमापुरङ्ग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ 30 ॥

श्लोक 8.20.31

पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी । विद्याधरो ऽसिः शतचन्द्रयुक्तस् तूणोत्तमावक्षयसायकौ च ॥ 31 ॥

श्लोक 8.20.32

सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ 32 ॥

श्लोक 8.20.33

मधुव्रतस्रग्वनमालयावृतो रराज राजन् भगवान् उरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ 33 ॥

श्लोक 8.20.34

पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य् उपर्य् अथो महर्जनाभ्यां तपसः परं गतः ॥ 34 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ