मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 3

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.3.1

एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्य् अनुशिक्षितम् ॥ 1 ॥

श्लोक 8.3.2

ॐ नमो भगवते तस्मै यत एतच् चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि ॥ 2 ॥

श्लोक 8.3.3

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । यो ऽस्मात् परस्माच् च परस्तं प्रपद्ये स्वयम्भुवम् ॥ 3 ॥

श्लोक 8.3.4

यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत् तिरोहितम् । अविद्धदृक् साक्ष्य् उभयं तदीक्षते स आत्ममूलो ऽवतु मां परात्परः ॥ 4 ॥

श्लोक 8.3.5

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद्गहनं गभीरं यस्तस्य पारे ऽभिविराजते विभुः ॥ 5 ॥

श्लोक 8.3.6

न यस्य देवा ऋषयः पदं विदुर् जन्तुः पुनः को ऽर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥ 6 ॥

श्लोक 8.3.7

दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्य् अलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ॥ 7 ॥

श्लोक 8.3.8

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्य् अनुकालमृच्छति ॥ 8 ॥

श्लोक 8.3.9

तस्मै नमः परेशाय ब्रह्मणे ऽनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ 9 ॥

श्लोक 8.3.10

नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि ॥ 10 ॥

श्लोक 8.3.11

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ 11 ॥

श्लोक 8.3.12

नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ 12 ॥

श्लोक 8.3.13

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ 13 ॥

श्लोक 8.3.14

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असता च्छाययोक्ताय सदाभासाय ते नमः ॥ 14 ॥

श्लोक 8.3.15

नमो नमस्ते ऽखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमो ऽपवर्गाय परायणाय ॥ 15 ॥

श्लोक 8.3.16

गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस् करोमि ॥ 16 ॥

श्लोक 8.3.17

मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमो ऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ 17 ॥

श्लोक 8.3.18

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर् दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥ 18 ॥

श्लोक 8.3.19

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्य् अपि देहमव्ययं करोतु मे ऽदभ्रदयो विमोक्षणम् ॥ 19 ॥

श्लोक 8.3.20

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ 20 ॥

श्लोक 8.3.21

तमक्षरं ब्रह्म परं परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं परिपूर्णमीडे ॥ 21 ॥

श्लोक 8.3.22

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ 22 ॥

श्लोक 8.3.23

यथार्चिषो ऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्य् असकृत् स्वरोचिषः । तथा यतो ऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥ 23 ॥

श्लोक 8.3.24

स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः । नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः ॥ 24 ॥

श्लोक 8.3.25

जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस् तस्यात्मलोकावरणस्य मोक्षम् ॥ 25 ॥

श्लोक 8.3.26

सो ऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतो ऽस्मि परं पदम् ॥ 26 ॥

श्लोक 8.3.27

योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतो ऽस्म्य् अहम् ॥ 27 ॥

श्लोक 8.3.28

नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥ 28 ॥

श्लोक 8.3.29

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितो ऽस्म्य् अहम् ॥ 29 ॥

श्लोक 8.3.30

एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥ 30 ॥

श्लोक 8.3.31

तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः । छन्दोमयेन गरुडेन समुह्यमानश् चक्रायुधो ऽभ्यगमदाशु यतो गजेन्द्रः ॥ 31 ॥

श्लोक 8.3.32

सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् नारायणाखिलगुरो भगवन् नमस्ते ॥ 32 ॥

श्लोक 8.3.33

तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार । ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ