श्रीमद्भागवत अष्टम स्कन्ध अध्याय 21
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.21.1
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर् हतस्वधामद्युतिरावृतो ऽभ्यगात् । मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः ॥ 1 ॥
श्लोक 8.21.2
वेदोपवेदा नियमा यमान्वितास् तर्केतिहासाङ्गपुराणसंहिताः । ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः । ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥ 2 ॥
श्लोक 8.21.3
अथाङ्घ्रये प्रोन्नमिताय विष्णोर् उपाहरत् पद्मभवो ऽर्हणोदकम् । समर्च्य भक्त्याभ्यगृणाच् छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ 3 ॥
श्लोक 8.21.4
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ॥ 4 ॥
श्लोक 8.21.5
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः । सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥ 5 ॥
श्लोक 8.21.6
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः । धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ 6 ॥
श्लोक 8.21.7
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः । नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥ 7 ॥
श्लोक 8.21.8
जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः । विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ 8 ॥
श्लोक 8.21.9
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया । ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ 9 ॥
श्लोक 8.21.10
न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः । द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ 10 ॥
श्लोक 8.21.11
अनेन याचमानेन शत्रुणा वटुरूपिणा । सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ 11 ॥
श्लोक 8.21.12
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः । नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ 12 ॥
श्लोक 8.21.13
तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः । इत्य् आयुधानि जगृहुर्बलेरनुचरासुराः ॥ 13 ॥
श्लोक 8.21.14
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः । अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः ॥ 14 ॥
श्लोक 8.21.15
तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप । प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ 15 ॥
श्लोक 8.21.16
नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः । कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ 16 ॥
श्लोक 8.21.17
जयन्तः श्रुतदेवश्च पुष्पदन्तो ऽथ सात्वतः । सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ 17 ॥
श्लोक 8.21.18
हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः । वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ 18 ॥
श्लोक 8.21.19
हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः । मा युध्यत निवर्तध्वं न नः कालो ऽयमर्थकृत् ॥ 19 ॥
श्लोक 8.21.20
यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये । तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ 20 ॥
श्लोक 8.21.21
यो नो भवाय प्राग् आसीदभवाय दिवौकसाम् । स एव भगवान् अद्य वर्तते तद्विपर्ययम् ॥ 21 ॥
श्लोक 8.21.22
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः । सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ 22 ॥
श्लोक 8.21.23
भवद्भिर्निर्जिता ह्य् एते बहुशो ऽनुचरा हरेः । दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ 23 ॥
श्लोक 8.21.24
एतान् वयं विजेष्यामो यदि दैवं प्रसीदति । तस्मात् कालं प्रतीक्षध्वं यो नो ऽर्थत्वाय कल्पते ॥ 24 ॥
श्लोक 8.21.25
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः । रसां निर्विविशू राजन् विष्णुपार्षद ताडिताः ॥ 25 ॥
श्लोक 8.21.26
अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् । बबन्ध वारुणैः पाशैर्बलिं सूत्ये ऽहनि क्रतौ ॥ 26 ॥
श्लोक 8.21.27
हाहाकारो महान् आसीद्रोदस्योः सर्वतो दिशम् । निगृह्यमाणे ऽसुरपतौ विष्णुना प्रभविष्णुना ॥ 27 ॥
श्लोक 8.21.28
तं बद्धं वारुणैः पाशैर्भगवान् आह वामनः । नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ 28 ॥
श्लोक 8.21.29
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर । द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ 29 ॥
श्लोक 8.21.30
यावत् तपत्य् असौ गोभिर्यावदिन्दुः सहोडुभिः । यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥ 30 ॥
श्लोक 8.21.31
पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः । स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ 31 ॥
श्लोक 8.21.32
प्रतिश्रुतमदातुस्ते निरये वास इष्यते । विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥ 32 ॥
श्लोक 8.21.33
वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्य् अधः । प्रतिश्रुतस्यादानेन यो ऽर्थिनं विप्रलम्भते ॥ 33 ॥
श्लोक 8.21.34
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना । तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः ॥ 34 ॥