मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 22

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.22.1

एवं विप्रकृतो राजन् बलिर्भगवतासुरः । भिद्यमानो ऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ 1 ॥

श्लोक 8.22.2

यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते । करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ 2 ॥

श्लोक 8.22.3

बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् । नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा ॥ 3 ॥

श्लोक 8.22.4

पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ 4 ॥

श्लोक 8.22.5

त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । यो नो ऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ 5 ॥

श्लोक 8.22.6

यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः । बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ 6 ॥

श्लोक 8.22.7

तेनाहं निगृहीतो ऽस्मि भवता भूरिकर्मणा । बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥ 7 ॥

श्लोक 8.22.8

पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः । भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा ॥ 8 ॥

श्लोक 8.22.9

किमात्मनानेन जहाति यो ऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः । किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ 9 ॥

श्लोक 8.22.10

इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् । ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम ॥ 10 ॥

श्लोक 8.22.11

अथाहमप्य् आत्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः । इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ 11 ॥

श्लोक 8.22.12

तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः । आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ 12 ॥

श्लोक 8.22.13

तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् । प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत ॥ 13 ॥

श्लोक 8.22.14

तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् । ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ॥ 14 ॥

श्लोक 8.22.15

स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् । उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ 15 ॥

श्लोक 8.22.16

त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् । मन्ये महान् अस्य कृतो ह्य् अनुग्रहो विभ्रंशितो यच् छ्रिय आत्ममोहनात् ॥ 16 ॥

श्लोक 8.22.17

यया हि विद्वान् अपि मुह्यते यतस् तत् को विचष्टे गतिमात्मनो यथा । तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ 17 ॥

श्लोक 8.22.18

तस्यानुशृण्वतो राजन् प्रह्रादस्य कृताञ्जलेः । हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ 18 ॥

श्लोक 8.22.19

बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला । प्राञ्जलिः प्रणतोपेन्द्रं बभाषे ऽवाङ्मुखी नृप ॥ 19 ॥

श्लोक 8.22.20

क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो ऽपर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ 20 ॥

श्लोक 8.22.21

भूतभावन भूतेश देवदेव जगन्मय । मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ 21 ॥

श्लोक 8.22.22

कृत्स्ना ते ऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ 22 ॥

श्लोक 8.22.23

यत्पादयोरशठधीः सलिलं प्रदाय दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् &अम्प्; अप्य् उत्तमां गतिमसौ भजते त्रिलोकीं दाश्वान् अविक्लवमनाः कथमार्तिमृच्छेत् ॥ 23 ॥

श्लोक 8.22.24

ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्य् अहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ 24 ॥

श्लोक 8.22.25

यदा कदाचिज् जीवात्मा संसरन् निजकर्मभिः । नानायोनिष्वनीशो ऽयं पौरुषीं गतिमाव्रजेत् ॥ 25 ॥

श्लोक 8.22.26

जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । यद्य् अस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः ॥ 26 ॥

श्लोक 8.22.27

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । सर्वश्रेयःप्रतीपानां हन्त मुह्येन् न मत्परः ॥ 27 ॥

श्लोक 8.22.28

एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ 28 ॥

श्लोक 8.22.29

क्षीणरिक्थश्च्युतः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः । ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ 29 ॥

श्लोक 8.22.30

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ 30 ॥

श्लोक 8.22.31

एष मे प्रापितः स्थानं दुष्प्रापममरैरपि । सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ 31 ॥

श्लोक 8.22.32

तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः । नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ 32 ॥

श्लोक 8.22.33

इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ 33 ॥

श्लोक 8.22.34

न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे । त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ 34 ॥

श्लोक 8.22.35

रक्षिष्ये सर्वतो ऽहं त्वां सानुगं सपरिच्छदम् । सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ 35 ॥

श्लोक 8.22.36

तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः । दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ