श्रीमद्भागवत अष्टम स्कन्ध अध्याय 4
श्रीमद्भागवत अष्टम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 8.4.1
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ 1 ॥
श्लोक 8.4.2
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ 2 ॥
श्लोक 8.4.3
यो ऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ 3 ॥
श्लोक 8.4.4
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ 4 ॥
श्लोक 8.4.5
सो ऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान् मुक्तकिल्बिषः ॥ 5 ॥
श्लोक 8.4.6
गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ 6 ॥
श्लोक 8.4.7
स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः । इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ 7 ॥
श्लोक 8.4.8
स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतो ऽच्युतं समर्चयामास कुलाचलाश्रमः ॥ 8 ॥
श्लोक 8.4.9
यदृच्छया तत्र महायशा मुनिः समागमच् छिष्यगणैः परिश्रितः । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्य् उपासीनमृषिश्चुकोप ह ॥ 9 ॥
श्लोक 8.4.10
तस्मा इमं शापमदादसाधुर् अयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव ॥ 10 ॥
श्लोक 8.4.11
एवं शप्त्वा गतो ऽगस्त्यो भगवान् नृप सानुगः । इन्द्रद्युम्नो ऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ 11 ॥
श्लोक 8.4.12
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वे ऽप्य् अनुस्मृतिः ॥ 12 ॥
श्लोक 8.4.13
एवं विमोक्ष्य गजयूथपमब्जनाभस् तेनापि पार्षदगतिं गमितेन युक्तः &अम्प्; गन्धर्वसिद्धविबुधैरुपगीयमान कर्माद्भुतं स्वभवनं गरुडासनो ऽगात् ॥ 13 ॥
श्लोक 8.4.14
एतन् महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ 14 ॥
श्लोक 8.4.15
यथानुकीर्तयन्त्य् एतच् छ्रेयस्कामा द्विजातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ 15 ॥
श्लोक 8.4.16
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम । शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ 16 ॥
श्लोक 8.4.17
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ 17 ॥
श्लोक 8.4.18
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ 18 ॥
श्लोक 8.4.19
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ 19 ॥
श्लोक 8.4.20
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च ॥ 20 ॥
श्लोक 8.4.21
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे । कर्माण्य् अनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ 21 ॥
श्लोक 8.4.22
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥ 22 ॥
श्लोक 8.4.23
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ 23 ॥
श्लोक 8.4.24
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते ते ऽंहसो ऽखिलात् ॥ 24 ॥
श्लोक 8.4.25
ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ 25 ॥
श्लोक 8.4.26
इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् । हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ 26 ॥