मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 5

श्रीमद्भागवत अष्टम स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 8.5.1

राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ 1 ॥

श्लोक 8.5.2

पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ 2 ॥

श्लोक 8.5.3

विभुरिन्द्रः सुरगणा राजन् भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ 3 ॥

श्लोक 8.5.4

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ 4 ॥

श्लोक 8.5.5

वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ 5 ॥

श्लोक 8.5.6

तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ 6 ॥

श्लोक 8.5.7

षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः । पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ 7 ॥

श्लोक 8.5.8

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः । मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥ 8 ॥

श्लोक 8.5.9

तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ 9 ॥

श्लोक 8.5.10

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणो ऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ 10 ॥

श्लोक 8.5.11

यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ 11 ॥

श्लोक 8.5.12

यथामृतं सुरैः प्राप्तं किं चान्यदभवत् ततः । एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ 12 ॥

श्लोक 8.5.13

त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः । नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ 13 ॥

श्लोक 8.5.14

सम्पृष्टो भगवान् एवं द्वैपायनसुतो द्विजाः । अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ 14 ॥

श्लोक 8.5.15

यदा युद्धे ऽसुरैर्देवा बध्यमानाः शितायुधैः । गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ 15 ॥

श्लोक 8.5.16

यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप । निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ 16 ॥

श्लोक 8.5.17

निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः । नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् ॥ 17 ॥

श्लोक 8.5.18

ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः । सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ 18 ॥

श्लोक 8.5.19

स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् । लोकान् अमङ्गलप्रायान् असुरान् अयथा विभुः ॥ 19 ॥

श्लोक 8.5.20

समाहितेन मनसा संस्मरन् पुरुषं परम् । उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ 20 ॥

श्लोक 8.5.21

अहं भवो यूयमथो ऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः । यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ 21 ॥

श्लोक 8.5.22

न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥ 22 ॥

श्लोक 8.5.23

अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् । तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ 23 ॥

श्लोक 8.5.24

इत्य् आभाष्य सुरान् वेधाः सह देवैररिन्दम । अजितस्य पदं साक्षाज् जगाम तमसः परम् ॥ 24 ॥

श्लोक 8.5.25

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः । स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ 25 ॥

श्लोक 8.5.26

अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् । मनो ऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥ 26 ॥

श्लोक 8.5.27

विपश्चितं प्राणमनोधियात्मनाम् अर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ 27 ॥

श्लोक 8.5.28

अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ 28 ॥

श्लोक 8.5.29

य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् । आसां चकारोपसुपर्णमेनम् उपासते योगरथेन धीराः ॥ 29 ॥

श्लोक 8.5.30

न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् । तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥ 30 ॥

श्लोक 8.5.31

इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः । गतिं न सूक्ष्मामृषयश्च विद्महे कुतो ऽसुराद्या इतरप्रधानाः ॥ 31 ॥

श्लोक 8.5.32

पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः । स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ 32 ॥

श्लोक 8.5.33

अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्य् उत वर्धमानाः । लोका यतो ऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ॥ 33 ॥

श्लोक 8.5.34

सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ 34 ॥

श्लोक 8.5.35

अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तःसमुद्रे ऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ 35 ॥

श्लोक 8.5.36

यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥ 36 ॥

श्लोक 8.5.37

प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः । अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ 37 ॥

श्लोक 8.5.38

श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः । प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ॥ 38 ॥

श्लोक 8.5.39

बलान् महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः । खेभ्यस्तु छन्दांस्य् ऋषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥ 39 ॥

श्लोक 8.5.40

श्रीर्वक्षसः पितरश्छाययासन् धर्मः स्तनादितरः पृष्ठतो ऽभूत् । द्यौर्यस्य शीर्ष्णो ऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ 40 ॥

श्लोक 8.5.41

विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च । ऊर्वोर्विड् ओजो ऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥ 41 ॥

श्लोक 8.5.42

लोभो ऽधरात् प्रीतिरुपर्य् अभूद्द्युतिर् नस्तः पशव्यः स्पर्शेन कामः । भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ 42 ॥

श्लोक 8.5.43

द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति । यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥ 43 ॥

श्लोक 8.5.44

नमो ऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने । गुणेषु मायारचितेषु वृत्तिभिर् न सज्जमानाय नभस्वदूतये ॥ 44 ॥

श्लोक 8.5.45

स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् । प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ 45 ॥

श्लोक 8.5.46

तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो । कर्म दुर्विषहं यन् नो भगवांस्तत् करोति हि ॥ 46 ॥

श्लोक 8.5.47

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ 47 ॥

श्लोक 8.5.48

नावमः कर्मकल्पो ऽपि विफलायेश्वरार्पितः । कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः ॥ 48 ॥

श्लोक 8.5.49

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् । एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ 49 ॥

श्लोक 8.5.50

नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे । निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ 50 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ