श्रीमद्भागवत नवम स्कन्ध अध्याय 13
श्रीमद्भागवत नवम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.13.1
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् । आरभ्य सत्रं सो ऽप्याह शक्रेण प्राग् वृतो ऽस्मि भोः ॥ 1 ॥
श्लोक 9.13.2
तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय । तूष्णीमासीद्गृहपतिः सो ऽपीन्द्रस्याकरोन् मखम् ॥ 2 ॥
श्लोक 9.13.3
निमित्तश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिरपरैस्तावन् नागमद्यावता गुरुः ॥ 3 ॥
श्लोक 9.13.4
शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः । अशपत् पतताद्देहो निमेः पण्डितमानिनः ॥ 4 ॥
श्लोक 9.13.5
निमिः प्रतिददौ शापं गुरवे ऽधर्मवर्तिने । तवापि पतताद्देहो लोभाद्धर्ममजानतः ॥ 5 ॥
श्लोक 9.13.6
इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ 6 ॥
श्लोक 9.13.7
गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागे च देवान् ऊचुः समागतान् ॥ 7 ॥
श्लोक 9.13.8
राज्ञो जीवतु देहो ऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून् मे देहबन्धनम् ॥ 8 ॥
श्लोक 9.13.9
यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ 9 ॥
श्लोक 9.13.10
देहं नावरुरुत्से ऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ 10 ॥
श्लोक 9.13.11
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितो ऽध्यात्मसंस्थितः ॥ 11 ॥
श्लोक 9.13.12
अराजकभयं न्णां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ 12 ॥
श्लोक 9.13.13
जन्मना जनकः सो ऽभूद्वैदेहस्तु विदेहजः । मिथिलो मथनाज् जातो मिथिला येन निर्मिता ॥ 13 ॥
श्लोक 9.13.14
तस्मादुदावसुस्तस्य पुत्रो ऽभून् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ 14 ॥
श्लोक 9.13.15
तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वो ऽथ मरुस्ततः ॥ 15 ॥
श्लोक 9.13.16
मरोः प्रतीपकस्तस्माज् जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतो ऽथ महाधृतिः ॥ 16 ॥
श्लोक 9.13.17
कृतिरातस्ततस्तस्मान् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ 17 ॥
श्लोक 9.13.18
ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः ॥ 18 ॥
श्लोक 9.13.19
कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ 19 ॥
श्लोक 9.13.20
कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन्नात्मविद्याविशारदः ॥ 20 ॥
श्लोक 9.13.21
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः । भानुमांस्तस्य पुत्रो ऽभूच् छतद्युम्नस्तु तत्सुतः ॥ 21 ॥
श्लोक 9.13.22
शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतो ऽभवत् । ऊर्जकेतुः सनद्वाजादजो ऽथ पुरुजित् सुतः ॥ 22 ॥
श्लोक 9.13.23
अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ 23 ॥
श्लोक 9.13.24
तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीदुपगुरुस्तस्मादुपगुप्तो ऽग्निसम्भवः ॥ 24 ॥
श्लोक 9.13.25
वस्वनन्तो ऽथ तत्पुत्रो युयुधो यत् सुभाषणः । श्रुतस्ततो जयस्तस्माद्विजयो ऽस्मादृतः सुतः ॥ 25 ॥
श्लोक 9.13.26
शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ 26 ॥
श्लोक 9.13.27
एते वै मैथिला राजन्नात्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्व् अपि ॥ 27 ॥