श्रीमद्भागवत नवम स्कन्ध अध्याय 18
श्रीमद्भागवत नवम स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.18.1
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः । षड् इमे नहुषस्यासन्निन्द्रियाणीव देहिनः ॥ 1 ॥
श्लोक 9.18.2
राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ 2 ॥
श्लोक 9.18.3
पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः । प्रापिते ऽजगरत्वं वै ययातिरभवन् नृपः ॥ 3 ॥
श्लोक 9.18.4
चतसृष्व् आदिशद्दिक्षु भ्रात्न् भ्राता यवीयसः । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ 4 ॥
श्लोक 9.18.5
ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः ॥ 5 ॥
श्लोक 9.18.6
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ 6 ॥
श्लोक 9.18.7
देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले । व्यचरत् कलगीतालि नलिनीपुलिने ऽबला ॥ 7 ॥
श्लोक 9.18.8
ता जलाशयमासाद्य कन्याः कमललोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ 8 ॥
श्लोक 9.18.9
वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ 9 ॥
श्लोक 9.18.10
शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ 10 ॥
श्लोक 9.18.11
अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ 11 ॥
श्लोक 9.18.12
यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये । धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ 12 ॥
श्लोक 9.18.13
यान् वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः ॥ 13 ॥
श्लोक 9.18.14
वयं तत्रापि भृगवः शिष्यो ऽस्या नः पितासुरः । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ 14 ॥
श्लोक 9.18.15
एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत । रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥ 15 ॥
श्लोक 9.18.16
आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसे ऽस्माकं गृहान् बलिभुजो यथा ॥ 16 ॥
श्लोक 9.18.17
एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ 17 ॥
श्लोक 9.18.18
तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ 18 ॥
श्लोक 9.18.19
दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिमुज्जहार दयापरः ॥ 19 ॥
श्लोक 9.18.20
तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ 20 ॥
श्लोक 9.18.21
हस्तग्राहो ऽपरो मा भूद्गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः । यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ 21 ॥
श्लोक 9.18.22
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ॥ 22 ॥
श्लोक 9.18.23
ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ 23 ॥
श्लोक 9.18.24
गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम् ॥ 24 ॥
श्लोक 9.18.25
दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ 25 ॥
श्लोक 9.18.26
वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ 26 ॥
श्लोक 9.18.27
क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः । कामो ऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ 27 ॥
श्लोक 9.18.28
तथेत्यवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ 28 ॥
श्लोक 9.18.29
पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा । स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ 29 ॥
श्लोक 9.18.30
नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजन् छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ 30 ॥
श्लोक 9.18.31
विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् । तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ 31 ॥
श्लोक 9.18.32
राजपुत्र्यार्थितो ऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरन् छुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ 32 ॥
श्लोक 9.18.33
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 33 ॥
श्लोक 9.18.34
गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ 34 ॥
श्लोक 9.18.35
प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ 35 ॥
श्लोक 9.18.36
शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ 36 ॥
श्लोक 9.18.37
अतृप्तो ऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा यो ऽभिधास्यति ॥ 37 ॥
श्लोक 9.18.38
इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ 38 ॥
श्लोक 9.18.39
मातामहकृतां वत्स न तृप्तो विषयेष्व् अहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ 39 ॥
श्लोक 9.18.40
नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ 40 ॥
श्लोक 9.18.41
तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ 41 ॥
श्लोक 9.18.42
अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि ॥ 42 ॥
श्लोक 9.18.43
को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् ॥ 43 ॥
श्लोक 9.18.44
उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः । अधमो ऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ॥ 44 ॥
श्लोक 9.18.45
इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः । सो ऽपि तद्वयसा कामान् यथावज् जुजुषे नृप ॥ 45 ॥
श्लोक 9.18.46
सप्तद्वीपपतिः संयक् पितृवत् पालयन् प्रजाः । यथोपजोषं विषयाञ् जुजुषे ऽव्याहतेन्द्रियः ॥ 46 ॥
श्लोक 9.18.47
देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः । प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः ॥ 47 ॥
श्लोक 9.18.48
अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ 48 ॥
श्लोक 9.18.49
यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः । नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ 49 ॥
श्लोक 9.18.50
तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ 50 ॥
श्लोक 9.18.51
एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् । विदधानो ऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ 51 ॥