श्रीमद्भागवत नवम स्कन्ध अध्याय 19
श्रीमद्भागवत नवम स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.19.1
स इत्थमाचरन् कामान् स्त्रैणो ऽपह्नवमात्मनः । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ 1 ॥
श्लोक 9.19.2
शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ 2 ॥
श्लोक 9.19.3
बस्त एको वने कश्चिद्विचिन्वन् प्रियमात्मनः । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ 3 ॥
श्लोक 9.19.4
तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥ 4 ॥
श्लोक 9.19.5
सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्यो ऽजाः कान्तकामिनीः ॥ 5 ॥
श्लोक 9.19.6
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् । स एको ऽजवृषस्तासां बह्वीनां रतिवर्धनः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ 6 ॥
श्लोक 9.19.7
तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् ॥ 7 ॥
श्लोक 9.19.8
तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ ॥ 8 ॥
श्लोक 9.19.9
सो ऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् ॥ 9 ॥
श्लोक 9.19.10
तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा । लम्बन्तं वृषणं भूयः सन्दधे ऽर्थाय योगवित् ॥ 10 ॥
श्लोक 9.19.11
सम्बद्धवृषणः सो ऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ 11 ॥
श्लोक 9.19.12
तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ 12 ॥
श्लोक 9.19.13
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ 13 ॥
श्लोक 9.19.14
न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 14 ॥
श्लोक 9.19.15
यदा न कुरुते भावं सर्वभूतेष्व् अमङ्गलम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ 15 ॥
श्लोक 9.19.16
या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते । तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ 16 ॥
श्लोक 9.19.17
मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ 17 ॥
श्लोक 9.19.18
पूर्णं वर्षसहस्रं मे विषयान् सेवतो ऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ 18 ॥
श्लोक 9.19.19
तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह ॥ 19 ॥
श्लोक 9.19.20
दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन् न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ 20 ॥
श्लोक 9.19.21
इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः । दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः ॥ 21 ॥
श्लोक 9.19.22
दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ 22 ॥
श्लोक 9.19.23
भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ 23 ॥
श्लोक 9.19.24
आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः । क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ 24 ॥
श्लोक 9.19.25
स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः । परे ऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ 25 ॥
श्लोक 9.19.26
श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः । स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ 26 ॥
श्लोक 9.19.27
सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः ॥ 27 ॥
श्लोक 9.19.28
सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गमात्मनः ॥ 28 ॥
श्लोक 9.19.29
नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ 29 ॥