मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 20

श्रीमद्भागवत नवम स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.20.1

पूरोर्वंशं प्रवक्ष्यामि यत्र जातो ऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ 1 ॥

श्लोक 9.20.2

जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः । प्रवीरो ऽथ मनुस्युर्वै तस्माच् चारुपदो ऽभवत् ॥ 2 ॥

श्लोक 9.20.3

तस्य सुद्युरभूत् पुत्रस्तस्माद्बहुगवस्ततः । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ 3 ॥

श्लोक 9.20.4

ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ 4 ॥

श्लोक 9.20.5

दशैते ऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ 5 ॥

श्लोक 9.20.6

ऋतेयो रन्तिनावो ऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवो ऽप्रतिरथः कण्वो ऽप्रतिरथात्मजः ॥ 6 ॥

श्लोक 9.20.7

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः । पुत्रो ऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः ॥ 7 ॥

श्लोक 9.20.8

दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ 8 ॥

श्लोक 9.20.9

विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ 9 ॥

श्लोक 9.20.10

तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसञ् श्लक्ष्णया गिरा ॥ 10 ॥

श्लोक 9.20.11

का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे । किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने ॥ 11 ॥

श्लोक 9.20.12

व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेतः पौरवाणामधर्मे रमते क्वचित् ॥ 12 ॥

श्लोक 9.20.13

विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्वो वीर किं करवाम ते ॥ 13 ॥

श्लोक 9.20.14

आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ 14 ॥

श्लोक 9.20.15

उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ 15 ॥

श्लोक 9.20.16

ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ 16 ॥

श्लोक 9.20.17

अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ 17 ॥

श्लोक 9.20.18

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः ॥ 18 ॥

श्लोक 9.20.19

तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ 19 ॥

श्लोक 9.20.20

यदा न जगृहे राजा भार्यापुत्राव् अनिन्दितौ । शृण्वतां सर्वभूतानां खे वाग् आहाशरीरिणी ॥ 20 ॥

श्लोक 9.20.21

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् ॥ 21 ॥

श्लोक 9.20.22

रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 22 ॥

श्लोक 9.20.23

पितर्युपरते सो ऽपि चक्रवर्ती महायशाः । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ 23 ॥

श्लोक 9.20.24

चक्रं दक्षिणहस्ते ऽस्य पद्मकोशो ऽस्य पादयोः । ईजे महाभिषेकेण सो ऽभिषिक्तो ऽधिराड् विभुः ॥ 24 ॥

श्लोक 9.20.25

पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ 25 ॥

श्लोक 9.20.26

अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु । भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ 26 ॥

श्लोक 9.20.27

त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्मन्तिरत्यगान् मायां देवानां गुरुमाययौ ॥ 27 ॥

श्लोक 9.20.28

मृगान् छुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ 28 ॥

श्लोक 9.20.29

भरतस्य महत् कर्म न पूर्वे नापरे नृपाः । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ 29 ॥

श्लोक 9.20.30

किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् । अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान् ॥ 30 ॥

श्लोक 9.20.31

जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ 31 ॥

श्लोक 9.20.32

सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ 32 ॥

श्लोक 9.20.33

स संराड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ 33 ॥

श्लोक 9.20.34

तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ 34 ॥

श्लोक 9.20.35

तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ 35 ॥

श्लोक 9.20.36

अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ 36 ॥

श्लोक 9.20.37

तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ 37 ॥

श्लोक 9.20.38

मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्व् अयम् ॥ 38 ॥

श्लोक 9.20.39

चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतो ऽबिभ्रन् दत्तो ऽयं वितथे ऽन्वये ॥ 39 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ