मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 3

श्रीमद्भागवत नवम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.3.1

शर्यातिर्मानवो राजा ब्रह्मिष्ठः सम्बभूव ह । यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ 1 ॥

श्लोक 9.3.2

सुकन्या नाम तस्यासीत् कन्या कमललोचना । तया सार्धं वनगतो ह्यगमच् च्यवनाश्रमम् ॥ 2 ॥

श्लोक 9.3.3

सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने । वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ 3 ॥

श्लोक 9.3.4

ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै । अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ 4 ॥

श्लोक 9.3.5

शकृन्मूत्रनिरोधो ऽभूत् सैनिकानां च तत्क्षणात् । राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितो ऽब्रवीत् ॥ 5 ॥

श्लोक 9.3.6

अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् । व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ 6 ॥

श्लोक 9.3.7

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ 7 ॥

श्लोक 9.3.8

दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः । मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ 8 ॥

श्लोक 9.3.9

तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः । कृच्छ्रान् मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः ॥ 9 ॥

श्लोक 9.3.10

सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ 10 ॥

श्लोक 9.3.11

कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ । तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ 11 ॥

श्लोक 9.3.12

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् ॥ 12 ॥

श्लोक 9.3.13

बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ । निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ 13 ॥

श्लोक 9.3.14

इत्युक्तो जरया ग्रस्त देहो धमनिसन्ततः । ह्रदं प्रवेशितो ऽश्विभ्यां वलीपलितविग्रहः ॥ 14 ॥

श्लोक 9.3.15

पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः । पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः ॥ 15 ॥

श्लोक 9.3.16

तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः । अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ 16 ॥

श्लोक 9.3.17

दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ । ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ 17 ॥

श्लोक 9.3.18

यक्ष्यमाणो ऽथ शर्यातिश्च्यवनस्याश्रमं गतः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ 18 ॥

श्लोक 9.3.19

राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ 19 ॥

श्लोक 9.3.20

चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः । यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसे ऽमुमध्वगम् ॥ 20 ॥

श्लोक 9.3.21

कथं मतिस्ते ऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्व् इदम् । बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः ॥ 21 ॥

श्लोक 9.3.22

एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनन्दनः ॥ 22 ॥

श्लोक 9.3.23

शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ 23 ॥

श्लोक 9.3.24

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ 24 ॥

श्लोक 9.3.25

हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः । सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः ॥ 25 ॥

श्लोक 9.3.26

अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः । भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ 26 ॥

श्लोक 9.3.27

उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः । शर्यातेरभवन् पुत्रा आनर्ताद्रेवतो ऽभवत् ॥ 27 ॥

श्लोक 9.3.28

सो ऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितो ऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम ॥ 28 ॥

श्लोक 9.3.29

तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः ॥ 29 ॥

श्लोक 9.3.30

पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् । आवर्तमाने गान्धर्वे स्थितो ऽलब्धक्षणः क्षणम् ॥ 30 ॥

श्लोक 9.3.31

तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् । तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ 31 ॥

श्लोक 9.3.32

अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः । तत् पुत्रपौत्रनप्त्णां गोत्राणि च न शृण्महे ॥ 32 ॥

श्लोक 9.3.33

कालो ऽभियातस्त्रिणव चतुर्युगविकल्पितः । तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥ 33 ॥

श्लोक 9.3.34

कन्यारत्नमिदं राजन् नररत्नाय देहि भोः । भुवो भारावताराय भगवान् भूतभावनः ॥ 34 ॥

श्लोक 9.3.35

अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः । इत्यादिष्टो ऽभिवन्द्याजं नृपः स्वपुरमागतः । त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्व् अवस्थितैः ॥ 35 ॥

श्लोक 9.3.36

सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने । बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ