श्रीमद्भागवत नवम स्कन्ध अध्याय 21
श्रीमद्भागवत नवम स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.21.1
वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ 1 ॥
श्लोक 9.21.2
गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ 2 ॥
श्लोक 9.21.3
वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ 3 ॥
श्लोक 9.21.4
व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ 4 ॥
श्लोक 9.21.5
कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ 5 ॥
श्लोक 9.21.6
तस्मै संव्यभजत् सो ऽन्नमादृत्य श्रद्धयान्वितः । हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः ॥ 6 ॥
श्लोक 9.21.7
अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ 7 ॥
श्लोक 9.21.8
याते शूद्रे तमन्यो ऽगादतिथिः श्वभिरावृतः । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ 8 ॥
श्लोक 9.21.9
स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् । तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ 9 ॥
श्लोक 9.21.10
पानीयमात्रमुच्छेषं तच् चैकपरितर्पणम् । पास्यतः पुल्कसो ऽभ्यागादपो देह्यशुभाय मे ॥ 10 ॥
श्लोक 9.21.11
तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ 11 ॥
श्लोक 9.21.12
न कामये ऽहं गतिमीश्वरात् पराम् अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्ये ऽखिलदेहभाजाम् अन्तःस्थितो येन भवन्त्यदुःखाः ॥ 12 ॥
श्लोक 9.21.13
क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोर् जिजीविषोर्जीवजलार्पणान् मे ॥ 13 ॥
श्लोक 9.21.14
इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः ॥ 14 ॥
श्लोक 9.21.15
तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः ॥ 15 ॥
श्लोक 9.21.16
स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ 16 ॥
श्लोक 9.21.17
ईश्वरालम्बनं चित्तं कुर्वतो ऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ 17 ॥
श्लोक 9.21.18
तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ 18 ॥
श्लोक 9.21.19
गर्गाच् छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ 19 ॥
श्लोक 9.21.20
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रो ऽभूद्धस्ती यद्धस्तिनापुरम् ॥ 20 ॥
श्लोक 9.21.21
अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ 21 ॥
श्लोक 9.21.22
अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः । बृहत्कायस्ततस्तस्य पुत्र आसीज् जयद्रथः ॥ 22 ॥
श्लोक 9.21.23
तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ 23 ॥
श्लोक 9.21.24
रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः । पारस्य तनयो नीपस्तस्य पुत्रशतं त्व् अभूत् ॥ 24 ॥
श्लोक 9.21.25
स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ 25 ॥
श्लोक 9.21.26
जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः ॥ 26 ॥
श्लोक 9.21.27
यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ 27 ॥
श्लोक 9.21.28
सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः । कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म षट् ॥ 28 ॥
श्लोक 9.21.29
संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः । तस्य क्षेम्यः सुवीरो ऽथ सुवीरस्य रिपुञ्जयः ॥ 29 ॥
श्लोक 9.21.30
ततो बहुरथो नाम पुरुमीढो ऽप्रजो ऽभवत् । नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः ॥ 30 ॥
श्लोक 9.21.31
शान्तेः सुशान्तिस्तत्पुत्रः पुरुजो ऽर्कस्ततो ऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन् मुद्गलादयः ॥ 31 ॥
श्लोक 9.21.32
यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ 32 ॥
श्लोक 9.21.33
विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ 33 ॥
श्लोक 9.21.34
मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमान् अभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ 34 ॥
श्लोक 9.21.35
तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ॥ 35 ॥
श्लोक 9.21.36
शरस्तम्बे ऽपतद्रेतो मिथुनं तदभूच् छुभम् । तद्दृष्ट्वा कृपयागृह्णाच् छान्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ 36 ॥