श्रीमद्भागवत नवम स्कन्ध अध्याय 22
श्रीमद्भागवत नवम स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.22.1
मित्रायुश्च दिवोदासाच् च्यवनस्तत्सुतो नृप । सुदासः सहदेवो ऽथ सोमको जन्तुजन्मकृत् ॥ 1 ॥
श्लोक 9.22.2
तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः । स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः । द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥ 2 ॥
श्लोक 9.22.3
धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः पाञ्चालका इमे । यो ऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ 3 ॥
श्लोक 9.22.4
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः ॥ 4 ॥
श्लोक 9.22.5
सुहोत्रो ऽभूत् सुधनुषश्च्यवनो ऽथ ततः कृती । वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ 5 ॥
श्लोक 9.22.6
कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः । बृहद्रथात् कुशाग्रो ऽभूदृषभस्तस्य तत्सुतः ॥ 6 ॥
श्लोक 9.22.7
जज्ञे सत्यहितो ऽपत्यं पुष्पवांस्तत्सुतो जहुः । अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ 7 ॥
श्लोक 9.22.8
ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति क्रीडन्त्या जरासन्धो ऽभवत् सुतः ॥ 8 ॥
श्लोक 9.22.9
ततश्च सहदेवो ऽभूत् सोमापिर्यच् छ्रुतश्रवाः । परीक्षिरनपत्यो ऽभूत् सुरथो नाम जाह्नवः ॥ 9 ॥
श्लोक 9.22.10
ततो विदूरथस्तस्मात् सार्वभौमस्ततो ऽभवत् । जयसेनस्तत्तनयो राधिको ऽतो ऽयुताय्व् अभूत् ॥ 10 ॥
श्लोक 9.22.11
ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च । ऋक्षस्तस्य दिलीपो ऽभूत् प्रतीपस्तस्य चात्मजः ॥ 11 ॥
श्लोक 9.22.12
देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ 12 ॥
श्लोक 9.22.13
अभवच् छान्तनू राजा प्राङ् महाभिषसंज्ञितः । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ 13 ॥
श्लोक 9.22.14
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ 14 ॥
श्लोक 9.22.15
शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ 15 ॥
श्लोक 9.22.16
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सो ऽब्रवीत् । तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा ॥ 16 ॥
श्लोक 9.22.17
वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ 17 ॥
श्लोक 9.22.18
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात् सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः ॥ 18 ॥
श्लोक 9.22.19
शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ 19 ॥
श्लोक 9.22.20
वीरयूथाग्रणीर्येन रामो ऽपि युधि तोषितः । शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः ॥ 20 ॥
श्लोक 9.22.21
विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः । यस्यां पराशरात् साक्षादवतीर्णो हरेः कला ॥ 21 ॥
श्लोक 9.22.22
वेदगुप्तो मुनिः कृष्णो यतो ऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ 22 ॥
श्लोक 9.22.23
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्यो ऽथोवाह काशीराजसुते बलात् ॥ 23 ॥
श्लोक 9.22.24
स्वयंवरादुपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ 24 ॥
श्लोक 9.22.25
क्षेत्रे ऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ 25 ॥
श्लोक 9.22.26
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ 26 ॥
श्लोक 9.22.27
शापान् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ 27 ॥
श्लोक 9.22.28
नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः । द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरो ऽभवन् ॥ 28 ॥
श्लोक 9.22.29
युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनाच् छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ 29 ॥
श्लोक 9.22.30
सहदेवसुतो राजन् छ्रुतकर्मा तथापरे । युधिष्ठिरात् तु पौरव्यां देवको ऽथ घटोत्कचः ॥ 30 ॥
श्लोक 9.22.31
भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ 31 ॥
श्लोक 9.22.32
करेणुमत्यां नकुलो नरमित्रं तथार्जुनः । इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपतेः सो ऽपि तत्पुत्रः पुत्रिकासुतः ॥ 32 ॥
श्लोक 9.22.33
तव तातः सुभद्रायामभिमन्युरजायत । सर्वातिरथजिद्वीर उत्तरायां ततो भवान् ॥ 33 ॥
श्लोक 9.22.34
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितो ऽन्तकात् ॥ 34 ॥
श्लोक 9.22.35
तवेमे तनयास्तात जनमेजयपूर्वकाः । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ 35 ॥
श्लोक 9.22.36
जनमेजयस्त्वां विदित्वा तक्षकान् निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ 36 ॥
श्लोक 9.22.37
कालषेयं पुरोधाय तुरं तुरगमेधषाट् । समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ 37 ॥
श्लोक 9.22.38
तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ 38 ॥
श्लोक 9.22.39
सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ 39 ॥
श्लोक 9.22.40
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथस्तस्माच् छुचिरथः सुतः ॥ 40 ॥
श्लोक 9.22.41
तस्माच् च वृष्टिमांस्तस्य सुषेणो ऽथ महीपतिः । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ 41 ॥
श्लोक 9.22.42
परिप्लवः सुतस्तस्मान् मेधावी सुनयात्मजः । नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज् जनिष्यति ॥ 42 ॥
श्लोक 9.22.43
तिमेर्बृहद्रथस्तस्माच् छतानीकः सुदासजः । शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः ॥ 43 ॥
श्लोक 9.22.44
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः । ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः ॥ 44 ॥
श्लोक 9.22.45
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भाविनो ये वदामि ते ॥ 45 ॥
श्लोक 9.22.46
भविता सहदेवस्य मार्जारिर्यच् छ्रुतश्रवाः । ततो युतायुस्तस्यापि निरमित्रो ऽथ तत्सुतः ॥ 46 ॥
श्लोक 9.22.47
सुनक्षत्रः सुनक्षत्राद्बृहत्सेनो ऽथ कर्मजित् । ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति ॥ 47 ॥
श्लोक 9.22.48
क्षेमो ऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः । द्युमत्सेनो ऽथ सुमतिः सुबलो जनिता ततः ॥ 48 ॥
श्लोक 9.22.49
सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः । बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ 49 ॥