मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 4

श्रीमद्भागवत नवम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.4.1

नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ 1 ॥

श्लोक 9.4.2

भ्रातरो ऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः ॥ 2 ॥

श्लोक 9.4.3

इमे अङ्गिरसः सत्रमासते ऽद्य सुमेधसः । षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि ॥ 3 ॥

श्लोक 9.4.4

तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ 4 ॥

श्लोक 9.4.5

दास्यन्ति ते ऽथ तान् अर्च्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ 5 ॥

श्लोक 9.4.6

तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतो ऽभ्येत्य ममेदं वास्तुकं वसु ॥ 6 ॥

श्लोक 9.4.7

ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः । स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ 7 ॥

श्लोक 9.4.8

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् । चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति ॥ 8 ॥

श्लोक 9.4.9

नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मञ् छिरसा त्वां प्रसादये ॥ 9 ॥

श्लोक 9.4.10

यत् ते पितावदद्धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् ॥ 10 ॥

श्लोक 9.4.11

गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सलः ॥ 11 ॥

श्लोक 9.4.12

य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः ॥ 12 ॥

श्लोक 9.4.13

नाभागादम्बरीषो ऽभून् महाभागवतः कृती । नास्पृशद्ब्रह्मशापो ऽपि यं न प्रतिहतः क्वचित् ॥ 13 ॥

श्लोक 9.4.14

भगवन् छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः । न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ 14 ॥

श्लोक 9.4.15

अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ 15 ॥

श्लोक 9.4.16

मेने ऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ 16 ॥

श्लोक 9.4.17

वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ 17 ॥

श्लोक 9.4.18

स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ 18 ॥

श्लोक 9.4.19

मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शे ऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥ 19 ॥

श्लोक 9.4.20

पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः ॥ 20 ॥

श्लोक 9.4.21

एवं सदा कर्मकलापमात्मनः परे ऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन् महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ 21 ॥

श्लोक 9.4.22

ईजे ऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिर् धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ 22 ॥

श्लोक 9.4.23

यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः ॥ 23 ॥

श्लोक 9.4.24

स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः । शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ 24 ॥

श्लोक 9.4.25

संवर्धयन्ति यत् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ 25 ॥

श्लोक 9.4.26

स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर्जहौ ॥ 26 ॥

श्लोक 9.4.27

गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादिष्व् अनन्तकोशेष्व् अकरोदसन्मतिम् ॥ 27 ॥

श्लोक 9.4.28

तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् । एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ 28 ॥

श्लोक 9.4.29

आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ 29 ॥

श्लोक 9.4.30

व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवने ऽर्चयत् ॥ 30 ॥

श्लोक 9.4.31

महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः ॥ 31 ॥

श्लोक 9.4.32

तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थान् अपि भक्तितः ॥ 32 ॥

श्लोक 9.4.33

गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसम्पदाम् ॥ 33 ॥

श्लोक 9.4.34

प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् ॥ 34 ॥

श्लोक 9.4.35

लब्धकामैरनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवान् अभूत् ॥ 35 ॥

श्लोक 9.4.36

तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः । ययाचे ऽभ्यवहाराय पादमूलमुपागतः ॥ 36 ॥

श्लोक 9.4.37

प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद्ध्यायन् कालिन्दीसलिले शुभे ॥ 37 ॥

श्लोक 9.4.38

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ 38 ॥

श्लोक 9.4.39

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ 39 ॥

श्लोक 9.4.40

अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ 40 ॥

श्लोक 9.4.41

इत्यपः प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः ॥ 41 ॥

श्लोक 9.4.42

दुर्वासा यमुनाकूलात् कृतावश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ 42 ॥

श्लोक 9.4.43

मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ 43 ॥

श्लोक 9.4.44

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः ॥ 44 ॥

श्लोक 9.4.45

यो मामतिथिमायातमातिथ्येन निमन्त्र्य च । अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ 45 ॥

श्लोक 9.4.46

एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ 46 ॥

श्लोक 9.4.47

तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः ॥ 47 ॥

श्लोक 9.4.48

प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ 48 ॥

श्लोक 9.4.49

तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ 49 ॥

श्लोक 9.4.50

तमन्वधावद्भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ 50 ॥

श्लोक 9.4.51

दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालांस्त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ 51 ॥

श्लोक 9.4.52

अलब्धनाथः स सदा कुतश्चित् सन्त्रस्तचित्तो ऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातस् त्राह्यात्मयोने ऽजिततेजसो माम् ॥ 52 ॥

श्लोक 9.4.53

स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ 53 ॥

श्लोक 9.4.54

अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः ॥ 54 ॥

श्लोक 9.4.55

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ 55 ॥

श्लोक 9.4.56

वयं न तात प्रभवाम भूम्नि यस्मिन् परे ऽन्ये ऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ 56 ॥

श्लोक 9.4.57

अहं सनत्कुमारश्च नारदो भगवान् अजः । कपिलो ऽपान्तरतमो देवलो धर्म आसुरिः ॥ 57 ॥

श्लोक 9.4.58

मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययावृताः ॥ 58 ॥

श्लोक 9.4.59

तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ 59 ॥

श्लोक 9.4.60

ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ 60 ॥

श्लोक 9.4.61

सन्दह्यमानो ऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन ॥ 61 ॥

श्लोक 9.4.62

अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातर् मुच्येत यन्नाम्न्युदिते नारको ऽपि ॥ 62 ॥

श्लोक 9.4.63

अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ 63 ॥

श्लोक 9.4.64

नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ 64 ॥

श्लोक 9.4.65

ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ 65 ॥

श्लोक 9.4.66

मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ 66 ॥

श्लोक 9.4.67

मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् कालविप्लुतम् ॥ 67 ॥

श्लोक 9.4.68

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ 68 ॥

श्लोक 9.4.69

उपायं कथयिष्यामि तव विप्र शृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुते ऽशिवम् ॥ 69 ॥

श्लोक 9.4.70

तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ 70 ॥

श्लोक 9.4.71

ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ 71 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ