मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 5

श्रीमद्भागवत नवम स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.5.1

एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः । अम्बरीषमुपावृत्य तत्पादौ दुःखितो ऽग्रहीत् ॥ 1 ॥

श्लोक 9.5.2

तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः । अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ 2 ॥

श्लोक 9.5.3

त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ 3 ॥

श्लोक 9.5.4

सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ 4 ॥

श्लोक 9.5.5

त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञो ऽखिलयज्ञभुक् । त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ 5 ॥

श्लोक 9.5.6

नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ 6 ॥

श्लोक 9.5.7

त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् ॥ 7 ॥

श्लोक 9.5.8

यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टो ऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे ॥ 8 ॥

श्लोक 9.5.9

स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ 9 ॥

श्लोक 9.5.10

यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः ॥ 10 ॥

श्लोक 9.5.11

यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः । सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ 11 ॥

श्लोक 9.5.12

इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद्राजयाच्ञया ॥ 12 ॥

श्लोक 9.5.13

स मुक्तो ऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः । प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ 13 ॥

श्लोक 9.5.14

अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे । कृतागसो ऽपि यद्राजन् मङ्गलानि समीहसे ॥ 14 ॥

श्लोक 9.5.15

दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः ॥ 15 ॥

श्लोक 9.5.16

यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ 16 ॥

श्लोक 9.5.17

राजन्ननुगृहीतो ऽहं त्वयातिकरुणात्मना । मदघं पृष्ठतः कृत्वा प्राणा यन् मे ऽभिरक्षिताः ॥ 17 ॥

श्लोक 9.5.18

राजा तमकृताहारः प्रत्यागमनकाङ्क्षया । चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् ॥ 18 ॥

श्लोक 9.5.19

सो ऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ 19 ॥

श्लोक 9.5.20

प्रीतो ऽस्म्यनुगृहीतो ऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ 20 ॥

श्लोक 9.5.21

कर्मावदातमेतत् ते गायन्ति स्वःस्त्रियो मुहुः । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ 21 ॥

श्लोक 9.5.22

एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः । ययौ विहायसामन्त्र्य ब्रह्मलोकमहैतुकम् ॥ 22 ॥

श्लोक 9.5.23

संवत्सरो ऽत्यगात् तावद्यावता नागतो गतः । मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह ॥ 23 ॥

श्लोक 9.5.24

गते ऽथ दुर्वाससि सो ऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् ॥ 24 ॥

श्लोक 9.5.25

एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान् निरयांश्चकार ॥ 25 ॥

श्लोक 9.5.26

अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः । वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः ॥ 26 ॥

श्लोक 9.5.27

इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते । सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ 27 ॥

श्लोक 9.5.28

अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः । मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः ॥ 28 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ