मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 6

श्रीमद्भागवत नवम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.6.1

विरूपः केतुमान् छम्भुरम्बरीषसुतास्त्रयः । विरूपात् पृषदश्वो ऽभूत् तत्पुत्रस्तु रथीतरः ॥ 1 ॥

श्लोक 9.6.2

रथीतरस्याप्रजस्य भार्यायां तन्तवे ऽर्थितः । अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ 2 ॥

श्लोक 9.6.3

एते क्षेत्रप्रसूता वै पुनस्त्व् आङ्गिरसाः स्मृताः । रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ 3 ॥

श्लोक 9.6.4

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ 4 ॥

श्लोक 9.6.5

तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप । पञ्चविंशतिः पश्चाच् च त्रयो मध्ये ऽपरे ऽन्यतः ॥ 5 ॥

श्लोक 9.6.6

स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् । मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ 6 ॥

श्लोक 9.6.7

तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् । श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ 7 ॥

श्लोक 9.6.8

शेषं निवेदयामास पित्रे तेन च तद्गुरुः । चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ 8 ॥

श्लोक 9.6.9

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः । देशान् निःसारयामास सुतं त्यक्तविधिं रुषा ॥ 9 ॥

श्लोक 9.6.10

स तु विप्रेण संवादं ज्ञापकेन समाचरन् । त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ 10 ॥

श्लोक 9.6.11

पितर्युपरते ऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ 11 ॥

श्लोक 9.6.12

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ 12 ॥

श्लोक 9.6.13

कृतान्त आसीत् समरो देवानां सह दानवैः । पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ 13 ॥

श्लोक 9.6.14

वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ 14 ॥

श्लोक 9.6.15

स सन्नद्धो धनुर्दिव्यमादाय विशिखान् छितान् । स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः ॥ 15 ॥

श्लोक 9.6.16

तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ 16 ॥

श्लोक 9.6.17

तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद्दैत्यान् अभिययुर्मृधे ॥ 17 ॥

श्लोक 9.6.18

तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ 18 ॥

श्लोक 9.6.19

जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥ 19 ॥

श्लोक 9.6.20

पुरञ्जयस्य पुत्रो ऽभूदनेनास्तत्सुतः पृथुः । विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ 20 ॥

श्लोक 9.6.21

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी । बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः ॥ 21 ॥

श्लोक 9.6.22

यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली । सुतानामेकविंशत्या सहस्रैरहनद्वृतः ॥ 22 ॥

श्लोक 9.6.23

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः । धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ 23 ॥

श्लोक 9.6.24

दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत । दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥ 24 ॥

श्लोक 9.6.25

बहुलाश्वो निकुम्भस्य कृशाश्वो ऽथास्य सेनजित् । युवनाश्वो ऽभवत् तस्य सो ऽनपत्यो वनं गतः ॥ 25 ॥

श्लोक 9.6.26

भार्याशतेन निर्विण्ण ऋषयो ऽस्य कृपालवः । इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः ॥ 26 ॥

श्लोक 9.6.27

राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ 27 ॥

श्लोक 9.6.28

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो । पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ 28 ॥

श्लोक 9.6.29

राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते । ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ 29 ॥

श्लोक 9.6.30

ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ 30 ॥

श्लोक 9.6.31

कं धास्यति कुमारो ऽयं स्तन्ये रोरूयते भृशम् । मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ 31 ॥

श्लोक 9.6.32

न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वो ऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ 32 ॥

श्लोक 9.6.33

त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः ॥ 33 ॥

श्लोक 9.6.34

यौवनाश्वो ऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ 34 ॥

श्लोक 9.6.35

ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ 35 ॥

श्लोक 9.6.36

द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् ॥ 36 ॥

श्लोक 9.6.37

यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति । तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ 37 ॥

श्लोक 9.6.38

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः । पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् । तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ 38 ॥

श्लोक 9.6.39

यमुनान्तर्जले मग्नस्तप्यमानः परं तपः । निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ 39 ॥

श्लोक 9.6.40

जातस्पृहो नृपं विप्रः कन्यामेकामयाचत । सो ऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ 40 ॥

श्लोक 9.6.41

स विचिन्त्याप्रियं स्त्रीणां जरठो ऽहमसन्मतः । वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ 41 ॥

श्लोक 9.6.42

साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् । किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः ॥ 42 ॥

श्लोक 9.6.43

मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् । वृतः स राजकन्याभिरेकं पञ्चाशता वरः ॥ 43 ॥

श्लोक 9.6.44

तासां कलिरभूद्भूयांस्तदर्थे ऽपोह्य सौहृदम् । ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ 44 ॥

श्लोक 9.6.45

स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु । गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ॥ 45 ॥

श्लोक 9.6.46

महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः । स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमे ऽनुगायद्द्विजभृङ्गवन्दिषु ॥ 46 ॥

श्लोक 9.6.47

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः । विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ 47 ॥

श्लोक 9.6.48

एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः ॥ 48 ॥

श्लोक 9.6.49

स कदाचिदुपासीन आत्मापह्नवमात्मनः । ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ 49 ॥

श्लोक 9.6.50

अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य । अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ 50 ॥

श्लोक 9.6.51

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि &अम्प्; एकश्चरन् रहसि चित्तमनन्त ईशे युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ 51 ॥

श्लोक 9.6.52

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः । नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैर्हृतमतिर्विषये ऽर्थभावः ॥ 52 ॥

श्लोक 9.6.53

एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः । वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः ॥ 53 ॥

श्लोक 9.6.54

तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् । सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ 54 ॥

श्लोक 9.6.55

ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् । अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ 55 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ