मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत नवम स्कन्ध अध्याय 7

श्रीमद्भागवत नवम स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 9.7.1

मान्धातुः पुत्रप्रवरो यो ऽम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः । हारीतस्तस्य पुत्रो ऽभून् मान्धातृप्रवरा इमे ॥ 1 ॥

श्लोक 9.7.2

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः । तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ 2 ॥

श्लोक 9.7.3

गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागाल् लब्धवरः सर्पादभयं स्मरतामिदम् ॥ 3 ॥

श्लोक 9.7.4

त्रसद्दस्युः पौरुकुत्सो यो ऽनरण्यस्य देहकृत् । हर्यश्वस्तत्सुतस्तस्मात् प्रारुणो ऽथ त्रिबन्धनः ॥ 4 ॥

श्लोक 9.7.5

तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः । प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा ॥ 5 ॥

श्लोक 9.7.6

सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते । पातितो ऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात् ॥ 6 ॥

श्लोक 9.7.7

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः । यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् ॥ 7 ॥

श्लोक 9.7.8

सो ऽनपत्यो विषण्णात्मा नारदस्योपदेशतः । वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ 8 ॥

श्लोक 9.7.9

यदि वीरो महाराज तेनैव त्वां यजे इति । तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ 9 ॥

श्लोक 9.7.10

जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सो ऽब्रवीत् । यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति ॥ 10 ॥

श्लोक 9.7.11

निर्दशे च स आगत्य यजस्वेत्याह सो ऽब्रवीत् । दन्ताः पशोर्यज् जायेरन्नथ मेध्यो भवेदिति ॥ 11 ॥

श्लोक 9.7.12

दन्ता जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ 12 ॥

श्लोक 9.7.13

पशोर्निपतिता दन्ता यजस्वेत्याह सो ऽब्रवीत् । यदा पशोः पुनर्दन्ता जायन्ते ऽथ पशुः शुचिः ॥ 13 ॥

श्लोक 9.7.14

पुनर्जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । सान्नाहिको यदा राजन् राजन्यो ऽथ पशुः शुचिः ॥ 14 ॥

श्लोक 9.7.15

इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा । कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ 15 ॥

श्लोक 9.7.16

रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ 16 ॥

श्लोक 9.7.17

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ 17 ॥

श्लोक 9.7.18

भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः । रोहितायादिशच् छक्रः सो ऽप्यरण्ये ऽवसत् समाम् ॥ 18 ॥

श्लोक 9.7.19

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥ 19 ॥

श्लोक 9.7.20

षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् । उपव्रजन्नजीगर्तादक्रीणान् मध्यमं सुतम् ॥ 20 ॥

श्लोक 9.7.21

शुनःशेफं पशुं पित्रे प्रदाय समवन्दत । ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ 21 ॥

श्लोक 9.7.22

मुक्तोदरो ऽयजद्देवान् वरुणादीन् महत्कथः । विश्वामित्रो ऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ 22 ॥

श्लोक 9.7.23

जमदग्निरभूद्ब्रह्मा वसिष्ठो ऽयास्यः सामगः । तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् ॥ 23 ॥

श्लोक 9.7.24

शुनःशेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते । सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ 24 ॥

श्लोक 9.7.25

विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् । मनः पृथिव्यां तामद्भिस्तेजसापो ऽनिलेन तत् ॥ 25 ॥

श्लोक 9.7.26

खे वायुं धारयंस्तच् च भूतादौ तं महात्मनि । तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ 26 ॥

श्लोक 9.7.27

हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा । अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ 27 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ